SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 154 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः प्रसिद्धितो नियमः। *भूतानां तु यथास्वं तन्मात्रेभ्यः क्रमादुत्पत्तिरिति कश्चिन्मन्यते । तं प्रति 'ब्रूमः*-न ह्यनुपबृहणा श्रुतिराप्ततमा । * अन्यान्यघटिता *नेकोपबृंहणविरोधे तदनु आनन्ददायिनी भूतानामिति । तत्र पौर्वापर्यमात्रे तात्पर्य न त्वव्यवधानांशोऽपि स्वीकार्यः। तथा सत्याथर्वणश्रुतिबाधापत्तेः । न च स युक्तः; अबाधेनोपपत्तौ बाधस्यान्याय्यत्वात् । अत एव भट्टपादैविरोधाधिकरण यदि द्विवाङ्गुलं मध्ये विमुच्योत्तरभागतः । वेप्ट्येतौदुम्बरी तत्र किं नाम न कृतं भवेत् ॥ इति । श्रुतिस्मृत्योरविरोधोऽङ्गीकृतश्चेत् किं पुनश्श्रुत्योरिति भावः । कश्चित्—साङ्ख्यः । अनुपबृंहणेति-त्रिवृत्करणादिश्रुतिवदिति भावः । भावप्रकाशः 1*भूतानामित्यादि एतच्च अत्रैवोत्तरत्र ‘भूतान्येकद्वित्रिचतुःपञ्चभिस्तन्मात्रैरारभ्यन्त इति साङ्ख्याः ' इत्यत्र स्फुटम् । एवं प्रकृतेर्महान् .... पञ्चभ्यः पञ्चभूताति(२२) इति कारिकातत्वकौमुद्यामपि । उपबृंहणशून्यश्रुतेस्साङ्ख्याभिमतसाधकता न सम्भवतीत्याह-*न हीति । विरोधाधिकरणाविरोधो नेत्याह *अन्योन्यघटितेति तन्मात्रभूतघटितेत्यर्थः । * अनेकेत्यनेन ‘विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वं' (१२-२-२) इति न्यायम्सूचितः । अतः पञ्चरात्रस्मृतेः मानान्तरानपेक्षप्रामाण्योपपादनपूर्वकं श्रुत्या सह विकल्पस्यागमप्रामाण्ये साधिततया च न विरोधाधिकरणविरोध इति भावः । अत्र 'तन्मात्राणि भूतादौ लीयन्ते' इति श्रुतिस्तु न साक्षाद्यौगपद्येनाप्ययपरा ; 'पृथिव्यप्सु
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy