SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सर:] त्रिगुणपरीक्षायां तन्मात्रभूतयोरुत्पत्तिःश्रुतिस्मृतिविप्रतिपत्तिनिरासश्च 153 तत्वमुक्ताकलापः तत्राहकारजन्यं भजति परिणतेश्शब्दमात्रं सर्वार्थसिद्धिः अथ तेषु तन्मात्रसृष्टौ श्रुतिस्मृतिविप्रतिपत्तेस्संशयं विपर्ययं वा निरस्यति तत्रे ति । * श्रूयते हि 'तन्मात्राणि भूतादौ लीयन्ते' इति। *न च श्रुतिविरुद्धा *स्मृतिरुदीयेत। अतः पञ्चानामपि तन्मात्राणां तामसाहङ्कारादुत्पत्तिः बहुवचनात् । बहुत्वस्य च आनन्ददायिनी भूतादौ लीयन्ते' इत्याथर्वणश्रुतिः । प्रधानं तत्वमुद्भूतं महत्तत्वं समावृणोत् । इत्यारभ्य विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥ इत्यन्ता विष्णुपुराणरूपा स्मृतिः । न चेति । विरोधाधिकरणन्यायादित्यर्थः । ननु पञ्चत्वस्याश्रवणाद्विरोधो नास्तीत्यत्राह-बहुवचनादिति । नन्वेवं आकाशाद्वायुरित्यादिकं विरुध्येत तत्राह भावप्रकाशः 'श्रूयते हीत्यादि । अयमत्र सौबालश्रुतिक्रमः-'पृथिव्यप्सु लीयते आपस्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे लीयते आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते' इत्यादि । *नचेत्यादि । तदुक्तं पूर्वतन्त्रे ‘विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानं' (३-३.३) इति । *स्मृतिः-विष्णुपुराणादिकं । पञ्चरात्रवचनानि चान्यत्र (न्या-सि-व्या) उदाहृतानि ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy