________________
152
सव्याख्यसर्वाधीसद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः प्राच्यादक्षाणि मात्राः प्रजनयति परो मध्यमस्तूभयार्थः ॥ ११ ॥
सर्वार्थसिद्धिः न्द्रियाणि । परस्तु भूतादिसंज्ञस्तन्मात्राः क्रमाजनयति । मध्यमस्तैजसाख्यः पूर्वापरयोरनुग्राहकतया तदुभयसाध्यसृष्टिद्वयार्थः। तुशब्दो मतान्तराद्वयवच्छिनत्ति । कल्पितं हि कैश्चित्तन्त्रान्तरनिष्ठैः कर्मेन्द्रियाणां प्रवृत्तिशीलतया राजसाहङ्कारजन्यत्वं; तच्चायुक्तं ; शब्दैकगम्येऽर्थे युक्तिभिरन्यथाकरणायोगात् ॥११॥ त्रिगुणपरीक्षायां तन्मात्रादेरागामकता महदाद्युत्पत्तिप्रकारश्च एवं प्रकृत्यादीनामागमगम्यत्वं सृष्टिप्रकारं च संजगृहे ।
आनन्ददायिनी तैजसाख्यः राजसः अनुग्राहकतया प्रवृत्त्युत्पादनेनेति शेषः । तन्त्रान्तरनिष्ठेरिति-शैवशास्त्रनिष्ठुरित्यर्थः।
ज्ञानेन्द्रियकर्मेन्द्रियभूतान्यहङ्कारतः क्रमशः । इत्युक्तेः । केचित्तु-मायिनस्तन्त्रान्तरनिष्ठाः इन्द्रियाणां भौतिकत्वेऽपि तन्मध्ये सात्विकांशैः भूतैर्ज्ञानेन्द्रियाणि राजसांशैः कर्मेन्द्रियाणि तामसांशैभूतानीत्युक्तेरित्याहुः। प्रमाणशून्यत्वादयुक्तं तदित्याह-तच्चायुक्तमिति ॥
त्रिगुणपरीक्षायां तन्मात्रादेरागमिकता महदाद्युत्पत्तिप्रकारश्च
सत्वाद्युन्मेषभिन्नादित्यादिना सृष्टिरुक्ता। पुनस्तदुक्तौ पौनरुक्तय(मिति शङ्कां परिहरन्नवसरसङ्गतिं दर्शयति) माशङ्कयावतारयति---- एवं प्रकृत्यादीनामिति । श्रुतिस्मृतिविप्रतिपत्तेरिति-तन्मात्राणि
भावप्रकाशः तवान्तर--- शैवागमः । परमतभङ्गे च । (२४) (१५३) स्फुटमेतत् ।
-
-