________________
सरः]
त्रिगुणपरीक्षायां तन्मात्रादेरागभिकतामहदाद्युत्पत्तिप्रकारश्च
151
तत्वमुक्ताकलापः सत्वाद्यन्मेषभिन्नान्महत इह तथा स्यादहङ्कारभेदः
सर्वार्थसिद्धिः . . . . यदि युक्तथा समर्थ्यते । सांख्यवत्प्रतिवक्तव्यो न विस्रम्भस्तदागमे ॥ तं षड्डिंशकमित्याहुस्सप्तविंशमथापरे ।
इत्यत्र न विरोधस्स्याच्छ्रतिमात्रानुसारतः॥ एवमागमिकेषु महदादिषु कालभेदनियतविकारभेदाधीनं विशेषमाह सत्वादीति गुणत्रयाश्रयात्प्रधानात् सत्वादिगुणोन्मेषभेदेन सात्विको राजसस्तामसश्चेति त्रिधा महानुत्पद्यते । त्रिभ्यश्च महद्भयस्तथैव त्रिविधोऽहङ्कारः। तत्र प्राच्यादेकादशे
__आनन्ददायिनी आह-यदि युक्तयेति । सांख्यमतवत् दूषितव्यमित्यर्थः । द्वितीय आहन विस्रम्भ इति । तादृश्याः श्रुतेरभावात्तदागमस्य सूत्रकृद्विद्विष्टत्वादिति भावः । नन्वौपनिषदपक्षेऽपि
तं षडिंशकमित्याहुः सप्तविंशमथापरे ।
इत्यादिना ह्यव्यवस्थया गणनान्न तत्वव्यवस्थेत्यत्राह-तं षड्रिंशकमिति । सप्ताविंशमिति यदि पाठस्तदा छान्दसो दीर्घः । यदा व्यक्तमादाय गणना क्रियते तदा षडिंशकत्वं । यदा तत्पूर्वावस्थयोरक्षरतमसोरन्यतरदप्यादाय तदा सप्तविंशत्वमिति श्रुतमात्रस्वीकारान्न कल्पनादोषो नाप्यव्यवस्थितिरिति भावः । पद्यशेषं व्याख्यातिएवमित्यादिना । कालभेदः सर्गादिकालविशेषः । तथैवेति सात्विकादिभेदेनेत्यर्थः । प्राच्यात् सात्विकाहङ्कारात् भूतादिसंज्ञस्तामसाहङ्कारः ।