________________
150
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः 1* पत्रिंशत्तत्ववादश्च
आनन्ददायिनी मप्युक्तन्यायेन दुष्टमिति सूचयति । षट्त्रिंशदिति । तदुक्तं श्रीकरभाष्ये
पृथ्व्यादि पञ्चभूतानि तन्मात्रापश्चकं तथा । बुद्धीन्द्रियाणि पञ्चापि पञ्च कर्मेन्द्रियाणि च ॥ मनो बुद्धिरहङ्कारः कला कालौ (काष्ठा) तथैव च । नियती रागविद्ये च प्रकृतिस्तद्गणास्त्र(श्र)यः ।।
धर्माधर्मों तथा जीवः ईशस्तत्वानि बुध्यतु । इति । (अन्यत्रापि तेषां) शैवतत्वसंग्रहे च
शैवागमेषु मुख्यं पशुपतिपाशा इति क्रमान्त्रितयम् ॥
तत्र पतिश्शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं पाशः । . इति ।
मलं कर्म च माया च मायोत्यमखिलं जगत् ॥
तिरोधानमयी शक्तिरर्थपञ्चकमिष्यते । इति पाशविभागः ।
शुद्धानि पञ्च तत्वान्याद्यन्तेषु स्मरन्ति शिवतत्वम् । शक्तिसदाशिवतत्वे ईश्वरविद्याख्यतत्वे च ॥ पुंसो ज्ञकर्तृतार्थ मायातस्तत्वपञ्चकं भवति । कालो नियतिश्च तथा कला च विद्या च रागश्च ॥ अव्यक्तान्मायातो गुणतत्वं तदनु बुद्ध्यहङ्कारौ ।
चेतो धीकर्मेन्द्रियतन्मात्राण्यनु च भूतानि ॥ इति । एतानि युक्तया समर्थ्यन्ते आगमेन वेति विकल्प मनसिकृत्याये
भावप्रकाशः 1*षत्रिंशदिति । न्यायसिद्धाञ्जनादौ चैतद्विस्तृतम्। .,