SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां तन्मात्रभूतयोरुत्पत्तिः श्रुतिस्मृतिविप्रतिपत्तिनिरासश्च 155 तत्वमुक्ताकलापः नभस्त्वं तद्वत्तन्मात्रपूर्वास्तदुपरि मरूदग्नयम्बु भूम्यः कमात्स्युः। सूक्ष्मस्थूलस्वभावस्वगुणस सर्वार्थसिद्धिः गुणं नेतव्या। अतः '*पाशवदहुवचनमनादरणीयं अंशभूयस्त्वव्यक्तयर्थं वा । तस्माच्छब्दतन्मात्रमेकमहङ्कारजन्यं । तच्च परिणतिविशेषादाकाशत्वं भजते । एतेन सर्वत्र सृष्टौ द्रव्यानुबृत्तिस्सूच्यते । तद्वत्-आकाशवत् । तन्मात्रपूर्वा (का)णि वाय्वादिभूतानि स्युः। ननु यदि शब्दाद्याश्रयतया तत्तद्भूतत्वं तर्हि कथं तत्र पञ्चकद्वयक्लप्तिरित्यत्राह—सूक्ष्मेति । स्वगुणा आनन्ददायिनी तर्हि वहुवचनस्य का गतिरित्यत्राह--पाशवदिति । अमीषोमीये एकपशुके पाशबहुत्वाभावात् 'अदितिः पाशानिति' बहुवचनमविवक्षितं अंशबहुत्वपरं वा तत्र निर्णीतं । तथात्राप्यविवक्षा शब्दतन्मात्राणामनेकत्वज्ञापनेन चरितार्थ वेति भावः । उपसर्जनस्यापि तात्पर्यात्परामर्शस्तच्छब्देनेत्याह—अकाशवदिति । मूले भावप्रकाशः लीयते' इत्यादिपूर्ववाक्यविरोधात् 'आकाशाद्वायुः' इत्यादिश्रुत्यन्तरविरोधाच्च । तथात्वे हि पृथिवी गन्धतन्मात्रे लीयते आपो रसतन्मात्रे लीयन्ते इत्यादिक्रममुक्ता तन्मात्राणि भूतादाविति वक्तव्यं । नचेयं श्रुतिरत्यन्तक्रमनिर्बन्धपरा ; आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु इति भवतामप्यनभिमतक्रमावशेषापातप्रतीतेः इति श्रीन्यायसिद्धाञ्जनश्रीसूक्तिरनुसन्धेया। *पाशवदिति-'विप्रतिपत्तौ विकल्पस्स्यात् गुणे त्व
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy