________________
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
143
सर्वार्थसिद्धिः * महदादिपक्षसिद्धयसिद्धिविकल्पेन निरस्तः।
आनन्ददायिनी सिद्धयसिद्धिविकल्पेनेति-सिद्धिः श्रुत्यैवेति तयैव प्रकृतिसिद्धेस्सिद्धसाधनं आसिद्धावाश्रयासिद्धिरिति भावः । व्याप्यत्वासिद्धिमप्याह
भावप्रकाशः मविभागः इति । अत्र वंशीधरः ; 'अयं प्रघट्टकार्थः—कारणाकार्यस्याभिव्यक्तिः सा कारणकार्यविभागः । कार्यस्य लक्षणाख्यः परिणामः । अतीतलक्षणः तिरोभावापरपर्यायो विभागः । अव्यक्तत्वं च तत्र कारणस्य स्वस्वकार्यरूपधर्मपरिणामान्यपरिणामवत्त्वं । भवति घटोत्पत्तेः प्राक् तन्नाशानन्तरं च घटस्वरूपधर्मपरिणामान्यः पिण्डखर्परादिपरिणामस्तद्वत्त्वं मृदादेरिति ' ' इत्थं च विवादाध्यासिता भेदा अव्यक्तकारणका अभिव्यक्तकार्यत्वात्कूाङ्गिादिवत् घटादिवद्वा । न च भेदशब्दस्य महदादिभूतान्तपरत्वे भूतानां प्रसिद्धत्वेऽपि महत्तत्वाहङ्कारपञ्चतन्मात्राणामप्रसिद्धयाऽप्रसिद्धिरिति वाच्यं ; प्रकृतेर्महानित्यादौ तेषां साधनीयत्वात् । तथा च महत्तत्वपर्यन्तपक्षे हेतूनां साध्यं सिध्यत् परमाव्यक्तं मूलकारणं सिद्धयतीत्यभिप्रायः । एवमविभागादनभिव्यक्तकार्यत्वापरपर्यायात्' इति चाह । * महदादिसिद्धयसिद्धीत्यादि-श्रुत्या महदादेस्सिद्धौ तत एवाव्यक्तसिद्धिः । प्रकृतमहानित्यादौ तन्मात्रेन्द्रियाण्यभिमानद्रव्योपादानकानि अभिमानकार्यद्रव्यत्वात् । अहङ्कारद्रव्यं.. निश्चयवृत्तिमद्दव्योपादानकं निश्चयकार्यद्रव्यत्वात् इत्याछ नुमानेन. महदादिसाधनं न सम्भवति कारणद्रव्येषु रूपाद्यभावेऽपि न्यूनाधिकभावेन कारणद्रव्यसंयोगात्तन्मात्रारूपत्वं यथा तथाऽत्रापि