________________
144
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः *'किंच कार्याणां सतां क्वचित्कारणे विभागाविभागौ नियताविति कृत्वा विचित्रस्य कार्यवर्गस्य विभागाविभागस्थानतया प्रधान सिषाधयिषितव्यं ; न त्वेवं नियमः । यथा मृदादिषु घटादीनामेतौ दृष्टौ न तथा तन्त्वादिषु पटादीनां । न हि तन्त्वेकदेशात्मकः पटः; येन घटादिन्यायस्स्यात् । एकस्मादनेकोत्पत्तिनियमश्च * अनेन
___ आनन्ददायिनी किंचेति । यथा मृत्पिण्डाद्विभज्य तदेकदेशो घटः क्रियते । पुनस्तदुपम(र्दैन) र्दने मृत्पिण्ड एव निविशते न तथा पटस्तन्तोरेकस्माद्विभज्योत्पद्यते । न च स्वोपम (र्दैन) र्दने निविशते इत्यर्थः । तत्र हेतुनहीति । तन्तूनामेव तदेकदेशत्वादिति भावः । अनेनेतिपटनिदर्शनेनेत्यर्थः । प्रत्येकं पटानामनेकतन्त्वारब्धत्वादिति भावः ।
भावप्रकाशः पक्षे साध्यहेत्वोरनङ्गीकारेऽप्यभिमाननिश्चयाद्यमुपपद्यते। महदादिसिद्धावपि तत्राभिव्यक्तकार्यत्वानभिव्यक्तकार्यत्वयोर्व्यक्तिसिद्धेःप्राङ्नैव निश्चयः । हेत्वन्तरेण तत्साधनेऽपि तत एवाव्यक्तं निश्चितमिति कथमनेन साध्यसिद्धिः? महदादिसिद्धौ चाश्रयासिद्धिरिति भावः । * किञ्चेत्यादि। अयमाशयः-विभागाविभागव्यवहारो ह्यत्यन्तभिन्नयोरेव लोके दृश्यते इति सांख्यमते कार्यकारणयोरत्यन्तभोदानङ्गीकारेण यथाश्रुते मूलमयुक्तं ; समुदायादेकदेशस्य पृथम्भावादिदशायां विभागादिव्यवहारस्य मुख्यस्याङ्गीकारेऽपि तन्तुपटादिषु तदसम्भवेनाव्यक्तकारणकत्वसाधनं न सम्भवति। सांख्यानां सत्कार्यवादसाधनासंभवसूचनायैवारम्भणाधिकरणे ‘पटवच्च' इति सूत्रामिति । *अनेन तन्तुपटस्थलेऽसम्भवेन ।