________________
142
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्यं
सर्वार्थसिद्धिः *'कारणकार्यविभागादविभागादिति हेतुश्च
आनन्ददायिनी भेदानां परिमाणादित्यु (त्याधु) क्तहेतुपञ्चकमध्ये त्रयो हेतवो निरस्ताः। परिशिष्टं हेतुद्वयं निराकर्तुमनुवदति । कारणकार्यविभागादिति ॥
भावप्रकाशः * कारणकार्यविभागादित्यदि- अत्र तत्वकौमुद्यां वाचस्पतिः कारणे सत् कार्यमिति स्थितं । तथाच यथा कूर्मशरीरे सन्त्येवाङ्गानि निस्सरन्ति विभज्यन्ते इदं कूर्मशरीरं एतान्येतस्याङ्गानीति एवं निविशमानानि तस्मिन् अव्यक्तीभवन्ति एवं कारणान्मृत्पिण्डाद्धेमपिण्डाद्वा घटमकुटादीनि सन्त्येवाविर्भवन्ति विभज्यन्ते सन्त्येव पृथिव्यादीनि कारणात्तन्मात्रादाविर्भवन्ति विभज्यन्ते सन्त्येव च तन्मात्राण्यहङ्कारात्कारणात् सन्नेवाहङ्कारः कारणान्महतः सन्नेव च महान् परमाव्यक्तात् । सोऽयं कारणात्परमाव्य क्तात् साक्षात्पारम्पर्येणावितस्य विश्वस्य कार्यस्य विभागः । प्रतिसर्गे तु मृत्पिण्डं सुव
पिण्डं वा घटमकुटादयो विशन्तोऽव्यक्तीभवन्ति । तत्कारणरूपमेवानभिव्यक्तं कार्यमपेक्ष्याव्यक्तं भवति । एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति । एवं तन्मात्राप्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति। एवमहङ्कारो महान्तं विशन् महान्तमव्यक्तयति । महान् प्रकृति स्वकारणं विशन् प्रकृतिमव्यक्तयति । प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव । सोऽय