________________
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरास
141
141
सर्वार्थसिद्धिः पूर्वशरीराकृष्टसूक्ष्मावयवसंघातमात्रेणापि (तत्वार्थः) गतार्थः । 'मूक्ष्म प्रमाणतश्च तथोपलब्धेः' इति सूत्रमपि तावन्मात्रविषयं । पुर्यष्टकशरीरोक्तिश्च न शरीरान्तर्वर्तिसूक्ष्मदेहसद्भावपरा ।
आनन्ददायिनी इत्यागमस्त्वित्यर्थः । नन्वत्र शरीरपदाभावात्कथं शङ्कति चेन्न । पुरुषशब्दस्य पुरि शेत इति व्युत्पत्त्या लिङ्गशररिपरत्वात् । तस्यापि स्थूलशरीररूपपुरस्स्थत्वात् । तत्वार्थ इति अर्थवानेवेत्यर्थः । गतार्थ इति पाठस्तु सुगमः। ननु सूक्ष्मशरीरनिराकरणं सूत्रकारविरुद्धमित्यत्राहसूक्ष्ममिति । चन्द्रसंवादादिकं तु तादात्विकशरीरान्तरमादाय नेयं सूक्ष्मशरीरस्यायोग्यत्वादिति भावः । ननु बुद्धीन्द्रियाणि खलु पञ्च तथापराणि
कर्मेन्द्रियाणि मनआदिचतुष्टयं च । प्राणादि पञ्चकमथो वियदादिपञ्च
कामाश्च कर्म च तमः पुनरष्टमी पूः ॥ इति । तथा च
शब्दस्स्पर्शश्च रूपं च रसो गन्धश्च पञ्चकम् ।
बुद्धिर्मनश्चाहङ्कारः पुर्यष्टकमुदाहृतम् ॥ इति कालोत्तरसंहितादिवचनोपहितया 'देवानां पूरयोध्या। अष्टाचक्रा नवद्वारा' इति श्रुत्या लिङ्गशरीरसिद्धिरिति चेत्तत्राहपुर्यष्टकेति । स्थूलशरीर एव रूपकमात्रत्वात्तस्याश्श्रुतेरिति भावः ।