________________
सर:]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
131
सर्वार्थसिद्धिः प्रीत्यप्रीतिविषादजनकत्वं दृष्टं तदपि तत्तद्गत * विचित्रगुणविशेषहेतुकं युक्तमिति तन; * संप्रतिपन्नदृष्टादृष्टहेतुशक्तैयव सर्वोपपत्तौ तदतिरिक्तत्रैगुण्यक्लप्तययोगात्। गुणानां कार्यैकनिरूपणीयत्वभाषणमपि शास्त्रोपज्ञं । अन्यथा त्रैगुण्योन्मेष
आनन्ददायिनी विचित्रगुणहेतुकं-सत्वरजस्तमोगुणहेतुकमित्यर्थः । आद्यं पक्षं दूषयति-संप्रतिपन्नेति । दृष्टं-कण्टकवेधादिः । अदृष्टं-धातुवैषम्यादि । द्वितीयं दूषयति-गुणनामिति । भाषणं--भाष्ये प्रतिपादनमित्यर्थः । 'प्रीत्यप्रीतिविषादात्मानः' 'सत्वं लघु प्रकाशकम्' इत्यादि सांख्यनां भाषणभित्यन्ये । त्रैगुण्यक्लप्त्ययोगादित्यत्र बिपक्षबाधकमाह-अन्यथेति । न सत्वमात्रं सुखं जनयति सन्ततजननप्रसङ्गात् अपितून्मिषितम् । तथाचोन्मेषेऽपि विलक्षणास्त्रयो गुणाः कल्पनीयाः।
भावप्रकाशः यत् सुखहेतुः तत् सुखात्मकं सत्वं । यद्दःखहेतुः तद्दःखात्मकं रजः। . यन्मोहहेतुः तन्मोहात्मकं तमः इति ' * विचित्रेति-गुणेषु विचित्रत्वं परस्पराभिभाव्याभिभावकभावापन्नत्वं । अत्र वंशीधरः-निमित्तोपादानकारणद्वयकल्पने गौरवाल्लाघवानुकूलतर्कात्सुखाद्यात्मकत्वं बाह्यानां सिध्यतीत्याह । तदुक्तदिशा सत्वरजस्तमसामनङ्गीकारेऽतीव लाघवात् साङ्ख्यानां मूलोच्छेद इत्याह-2* सम्प्रतिपन्नेत्यादिना
. कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतसमुदायाच्च, इत्यत्र ‘प्रवर्तते त्रिगुणत इति खण्डमित्थं विवृतं माठरवृत्तौ यद्येकं प्रधान कथं त_नेकं कार्यमुत्पादयतिः तथाहि-नैकस्तन्तुः पटाख्यं कार्य जनयति
9*