________________
130
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[জভ
जडद्र
सर्वार्थसिद्धिः मुन्नीयेत। *'ननु सुख्यामिदुःख्यामि मुद्यामीति स्वानुभवसिद्धास्तावत्सुखादयः । ते च कार्यभूतास्स्वानुरूपं कारणमाक्षिपन्ति । तथा तथा तेषुतेषु विषयेषु कालभेदेन पुरुषभेदेन च
आनन्ददायिनी शङ्कते-नन्वित्यादिना । तथेति । सर्वे पदार्थास्सुखदुःखमोहात्मकाः । यथैकमेव वस्तु कंचिद्दःखाकरोति कंचित्सुखाकरोति कंचिन्मोही करोति ; तथा कालभेदेनैक (मेव) पुरुषं प्रति यथाग्निः । तत्र सुखं सत्वात्मकं सत्वपरिणामः दुःखं रज परिणामः मोहस्तम परिणाम इति 'प्रीत्यप्रतिविषादात्मान' इत्यादिना साङ्ख्यैरुपपादितैः सुखादिभिस्सत्वादिसमनुगतिरनुमीयते । न तदर्थं श्रुत्यपेक्षेति भावः ।
भावप्रकाशः क्वचिद्दुःखसुखदिशब्दाः लोके प्रतिकूलानुकूलवस्तुन्युपचारेण प्रयुज्यन्ते इति। ननु सुखादिकं सकारणकं कार्यत्वादित्यनुमानेन सत्वादिसमन्वयस्सिध्यतीति शङ्कते '* नन्विति । तदुक्तं 'सत्वं लघु ' (१३) इत्यादिविवरणतत्वकौमद्यां-'अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति । तेषां च परस्परमभिभाव्याभिभावकभावान्नानात्वं ; तद्यथा-एकैव स्त्री रूपयौवनकुलशीलसंपन्ना स्वामिनं सुखाकरोति ; तत्कस्य हेतोः ? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात् । सैव स्त्री सपत्नीर्दुखाकरोति; तत्कस्य हेतोः? तां प्रति तस्याः दुःखरूपसमुद्भवात् । एवं पुरुषान्तरं तामविन्दमानं सैव मोहयति; तत्कस्य हेतोः? तं प्रति तस्याः मोहरूपसमुद्भवात् । अनया च स्त्रिया सर्वे भावा व्याख्याताः। तत्र