________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
132
सर्वार्थसिद्धिः भेदस्याप्यतिरिक्तनिर्वाहकत्रैविध्यक्लप्तावनवस्थाप्रसङ्गात् । सामग्रयनवस्था तु सिद्धा न क्वापि दोषाय प्रत्युत गुणायेति सर्वैरेष्टव्या । '* गुणत्रयात्मकं च कारणमिच्छतस्ते विश्वस्यैकोपादानत्वं * दुर्वचम् ।
आनन्ददायिनी तथा परापरा (परम्परा) पेक्षायामनवस्था स्यादित्यर्थः। त्रयो गुणास्त्रैगुण्यं स्वार्थ ष्यञ् । सामग्रयनवस्थात्विति । ननु पूर्वत्रापि सामग्रयनवस्थैवेति चेत् ; सत्यं ; तथाऽप्यनुमानतः कल्प्यमानेऽपि कारणे तदुन्मेषादिकारणं ज्ञातव्यं ; अत्र तु स्वरूपानवस्था बीजाङ्करादिवन्न दोषकरीति भावः । केचित्तु --एकपदार्थनिष्ठानेकपदार्थपरम्परा दोषः । सामग्रयनवस्था तु न तादृशी (त्यदोष इ) त्याहुः । एकोपादानकत्वानुमानं च तव सिद्धान्तविरुद्धं चेत्याह-गुणत्रयेति ।
भावप्रकाशः इत्थं प्रधानमनेकं कर्य जनयतीति न जाघटीति ; अत्र समाधीयतेप्रवर्तते त्रिगुणतः-प्रधाने सत्वरजस्तमसामवस्थानाद्बहुत्वसम्भवः इत्यादि। वंशीधरोऽप्येवमेव । तद्दषयति-'* गुणत्रयात्मकमित्यादिना। * दुर्वचमिति-सत्वरजस्तमसां तन्मते द्रव्यत्वाङ्गीकारेऽप्येकसंयोगावशिष्टो. पादानकत्वमेकोपादानकत्वमिति न सम्भवति ‘अप्राप्तिपूर्विका प्राप्तिसंयोगः' इति 'नापि सत्वरजस्तमसां परस्परं संयोगः; अप्राप्तेरभावात्' इति वाचस्पत्युक्तेः प्रकृतेः परिच्छिन्नापरिच्छिन्नत्रिविधगुणसमुदायरूपतया परिच्छिन्नगुणावच्छेदेन पुरुषसंयोगोत्पत्तिसम्भवात् । स्वस्वबुद्धिभावापन्नप्रकृतिसंयोगविशेषस्यैवात्र संयोगशब्दार्थत्वाच्च' इत्यादिवशीधरोक्तिरकिञ्चित्करा