________________
126
सव्याख्यसर्वार्थीसद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
__ सर्वार्थसिद्धिः धूतं सर्वथा सारूप्ये हेतौ तत्वभेदभङ्गप्रसङ्गात् । यथाकथं चित्सारूप्येतु व्यभिचारात् । साक्षादेकोपादानत्वसाधने सृष्टिक्रमादिशैथिल्यं स्यात् । मृत्तन्त्वाद्युपादानभेदश्च निस्यते । परम्परयेति तु मृद्धटादिनिदर्शनविरुद्धं । नित्येषु च पुरुषेषुसाक्षित्वादयो धर्मास्साधारणा युष्माभिरेव पट्यन्ते न तु तेषां हेतव इष्टाः । व्यक्ताव्यक्तयोश्च त्रिगुणमविवेकीत्यदि साध
आनन्ददायिनी दाकारेण वेति विकल्पमभिप्रेत्याचं दूषयति-सर्वथेति । तथा च महदादय इति पक्षबहुत्वासिद्धे (राश्रयसिद्धि) रित्यर्थः । द्वितीयं दूषयति यथाकथञ्चिदिति । द्रव्यत्वेनैकरूपवद्भिर्भिन्नैः मृत्तन्तूपादानकैर्व्यभिचारादित्यर्थः । किञ्चैकोपादानक (त्व)? मित्यत्र किं साक्षादेकोपादानकत्वं साध्यते उत परम्परया यद्वा सामान्येनेति विकल्पाभिप्रायणाये दूषणमाह-साक्षादिति । सृष्टिक्रमादीति । प्रकृतेर्महान्महतोऽहङ्कारस्ततस्तन्मात्राणत्यिादिक्रम इत्यर्थः । तथाचागमबाध इति भावः । व्यभिचारश्चेत्याह-मृत्तन्त्वादीति । द्वितीयं दूषयतिपरम्परयेति । (तथाच) दृष्टान्ते साध्यवैकल्यमिति भावः । तृतीयं दूषयति-नित्येषु चेति ।
____ 'तस्माच्चविपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं (कैवल्याध्यस्तत्वं) माध्यस्थयं द्रष्टत्वमकर्तृभावश्च ॥
इत्यनेनेति शेषः । ननु नास्मन्मतेऽप नित्यत्वं हेतुमत्त्वविरोधीत्यत्राह-नतु तेषामिति । अभिव्यञ्जका अपि तेषां नेष्टा इति भावः । ननु यत्कार्य येन सहैकरूपं तत्तेन सह समानो (सहैको) पादानकमिति विवक्षितामित्यत्राह-व्यक्ताव्यक्तयोश्चेति । आदिशब्दार्थस्तु . . . . 'विषयस्सामान्यमचेतनं प्रसवधर्मि ।