________________
सर:] त्रिगुणपरीक्षायां प्रकृत्यादेरानुमानिकत्वस्य सामान्यतानिरासः
127
सर्वार्थसिद्धिः hपाठादेकोपादानत्वप्रसङ्गः। कार्यत्वे सतीति विशेषणेपि मृत्पिण्डद्वयारब्धघटादिभिः गोमयादिनानोपादानीश्चकादिभिश्चानैकान्त्यं बह्वारब्धघटादिभिश्च । तेषामपि पक्षीकरणे
आनन्ददायिनी व्यक्तं तथा प्रधानम् ' . . . . ।
इति विवक्षितः तथा च महदादेः प्रकृत्या सह त्रैगुण्यादिसमानरूपवत्त्वात्तया नित्यभूतया सहैकोपादानकत्वाभावाव्यभिचार हाव भावः । ननु यत्कार्य येनकार्येण सरूपामिति विवक्षायान व्यभिचार इत्यत्राहकार्यवें सतीति । ननु
कार्यरूपेण नानात्वमभेदः कारणात्मना ।
हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा ॥ . इति तथा च यथा कारणात्मना हेमरूपेणाभेदः । कुण्डलाद्यात्मना भेदः तथा मृत्पिण्डस्वरूपेण भेदेऽपि मृदात्मना कारणतावच्छेदकाकारण वा अभेदोस्तीत्यत्राह-गोमयेति । एकरूपान्वित वृश्चिकापेक्षया उपादानभूतगोमयवृश्चिकयोः परस्परं विरुद्धधर्मसंसृष्टत्वेन कारणात्मना (प्यभेदस्य) प्यैक्यस्य वक्तुमशक्यत्वादिति भावः । न च एकव्यक्तिदृष्टान्तस्तस्या एकमृत्पिण्डोपादानकत्वादित्यत्राह-बहिति । तथा
चैकं कार्यमेकोपादानकमिति नियम एव नास्ति. दूरे बहूनि कार्या (बहुकार्यद्रव्या) ण्यैकोपादनकानीति नियम इंति भावः । ननु सर्वकार्याणामप्यनेनानुमानेनैकोपादानकत्वं साध्यते । (तथा च) पटादीनां नानोपादानकत्वेऽपिक्षित्यादावेककर्तृकत्वसिद्धिरिव न विरुद्धमिति पटादीनां पक्षकोटिनिक्षिप्तत्वान्न व्यभिचार इत्यत्राहतेषामपीति । तथा च व्याप्यत्वासिद्धिरिति भावः । ननु सर्व कार्य