________________
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
___125
सर्वार्थसिद्धिः विभक्तस्याविभक्तस्य वा तेष्वनुगतत्वादृष्टेः 'श्यदप्येकरूपान्वितत्वात् एकोपादानत्वमिच्छन्ति । तदपि स्वपरमतनि
आनन्ददायिनी विभक्तस्य-कार्यावस्थस्य । अविभक्तस्य- कारणावस्थस्य । तस्याभेदेन तदात्मकतया तद्वत्तित्वासिद्धेरिति भावः । ननु समन्वयादित्यस्य एकरूपान्वितत्वादित्यर्थस्य च साध्यमेकोपादानकत्वमिति च कस्य चिन्मतमनूद्य दूषयति---यदपीत्यादिना । स्वपरमतनिधूतंस्वपरमतानुसारेण घटादिषु व्याप्तिशून्यमित्यर्थः । किं च एकरूपान्वितत्वं नाम सर्वथास्व(सर्वसारूप्योरूपैक्यं विवक्षितं उत यत्किञ्चि
भावप्रकाशः स्थार्थिकः ष्यञ् इति तद्विवरणेऽपि । अवश्यं चैकोपादानत्वं साङ्खस्साधनीयं अन्यथा अनुमानेनानेकपरमाणूपादानकतां कार्यजातस्य साधयतो वैशोषिकादेस्स्वस्य वैलक्षण्यमेव न स्यात् । न च
शब्दस्पर्शविहीनं तद्पादिभिरसंयुतम् ।
त्रिगुणं तज्जगद्योनि . . . . .॥ इति विष्णुपुराणोक्तं रूपादिराहित्येन वैलक्षण्यं वंशीधरेणोक्तमिति न दोष इति वाच्यम् । अनुमानेन साधनावसरे आगमोदाहरणस्यानवसरग्रस्तत्वात् उपादानस्यैकत्वे लाघवमेव विपक्षे बाधकस्तर्कः । समन्वयादिति हेतौ च समित्येकीकारे । एतत्तात्पर्यकमेव 'भिन्नानां समानरूपता समन्वयः' इति तत्वकौमुदीवाक्यमित्यभिप्रयन् तन्मत मुपन्यस्यति-1* यदप्याहुरिति ।