________________
124
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः अन्यथा व्यक्ताव्यक्तसाधारणधमोणां तदुभयकारणत्वप्रसङ्गात् । तथा च नत्वाधिक्यप्रसङ्गः। एतेन 'विगीतं स्वानुगतकारणकं कार्यत्वात् घटशरावादिवदित्यपि निरस्तं। घटादिष्वनुगतस्य मृत्त्वस्य तत्कारणत्वासिद्धेः। मृव्यस्य तु घटाद्यात्मना
आनन्ददायिनी सर्वस्यापि कारणत्वमस्त्वित्यत्राह-~~अन्यथेति । 'त्रिगुणमविवेकि विषयः' इत्यादिना त्वया प्रतिपादितानां त्रिगुणत्वादीनामित्यर्थः । इष्टाप(त्या)त्तिं परिहरति तथाचेति । त्रिगुणापेक्षयापि कारणं तत्वान्तरं स्यादित्यर्थः । इदमुपलक्षणं--प्रकृतरपि विकृतित्वं स्यादिति 'प्रकृति विकृतयस्सप्त' इत्युक्तं विरुध्येतेत्यपि ध्येयं । ननु कार्यस्य स्वानुगतकारणकत्वमानं साध्यं न तु तदनुगतानां यावतां तत्कारणत्वं । तथा च शौक्लयादिषु न व्यभिचार इत्यत्राह-एतेनेति । एतेनेत्युक्तमेवाह-घटादिष्विति । तथा च व्यापयत्वासिद्धिरिति भावः ।
भावप्रकाशः
चितमनुमानाकारमाह-*विगीतमित्यादिना ।
'हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ (१०) इत्यत्र अनेकेषां महदादनिामेकस्याव्यक्तस्य लिङ्गत्वं स्फुटम् । ..
'भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ (१५) कारणमस्त्यव्यक्तम्' इत्यस्य वैश्वरूप्यस्य-नानारूपस्य कार्यस्य