________________
सर:
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
123
सर्वार्थसिद्धिः व्याप्तिवचनं "तदनंतमसंख्यातप्रमाणं च" इत्यादिकमपि, विभुत्वमन्तरेणापि स्यात् घटादीनामपि स्वन्यूनपरिमाणैः पिण्डाद्यवयवैरेवोत्पत्तिरित समन्वयश्च कुत्र केषां कीदृशः ? * सुखादिरूपेषु कार्येषु सत्वादीनां समनुगतिरिति चेत् किमतः? न हि यद्येष्वनुगतं तत्तेषां कारणमिति नियमः शौक्लयगोत्वादेरनेकानुगतस्य तत्कारणत्वाभावात् ।
आनन्ददायिनी व्याप्तिवचनं—अपरिच्छिन्नत्ववचनं । अव्यक्ते व्यभिचारप्रदर्शनस्यसिद्धयसिद्धिदोषादुदाहरणान्तरे व्यभिचारमाह---घटादीनामपीति । समन्वयादित्युक्तं दूषयितुमुपक्रमते--समन्वयश्चेति । अत्रैवमनुमानप्रयोगः-विवादाध्यासिता महदादिभेदाः स्वानुगताव्यक्तकारणवन्तः । समन्वयात् । यानि च यद्रपसमन्वितानि तानि तत्स्वभावाव्यक्तकारणकानि यथा मृद्धेमरूपसमन्विता घटमकुटादयो मृद्धेमपिण्डाव्यक्तकारणका इति । तथा च सुखदुःखमोहसमन्विता बुद्धयादयस्तादृशाव्यक्तं साधयन्तीति । सुखादिरूपेष्विति । भिन्नष्वेकाकारतानुगतिरिति तैरुक्तेस्सत्वादीनां सुखादिरूपेषु महदादिष्वनुगतिरित्यर्थः । (तत). अव्यक्तकारणकमित्यत्रा (प्य) व्यक्तशब्दस्य कारणपरत्वे सिद्धसाधनात् । येषु यदनुगतं तत्तत्कारणमिति वक्तव्यं तत्राह-नहीति । तत्र हेतुमाह - शौक्लयेति । तथा च तत्र व्यभिचार (उक्त) ? इति भावः ।
भावप्रकाशः गुणसमन्वयस्समन्वयादित्यनेन विवक्षित इत्याशयेनाह-* सुखादिरूपेष्वित्यादि । यथा. मृद्धेमपिण्डसमनुगताः . इत्यादि तत्वकौमुदीसू..