________________
122
सव्याख्यसर्वार्थसिद्धिसाहततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः एकप्रमाणवेद्यत्वे कार्यकारणयोर्मथः ।
बोध्यबोधकते न स्तः सहदृष्टाग्निधूमवत् ॥ विप्रतिपन्नं प्रत्यनुमानं सार्थमिति चेन्न महदादीनप्यभ्युपेत्यानभ्युपेत्य वा तेष्वव्यक्तकारणकत्वविप्रतिपत्त्ययोगात् '*यदप्याहुः-कार्याणां स्वाधिकपरिमाणादुत्पत्तिर्नियतेति; तदप्यसत् । वस्त्रादिषु वैपरीत्यदृष्टेः अव्यक्तस्य च परिच्छिन्नत्वं "तमसः परस्तान्मृत्यू भिनत्ति" इत्यादिशास्त्रशतसिद्धं
आनन्ददायिनी रित्यर्थः । तथा च सिद्धसाधनामिति भावः । तदेव कारिकयोपपादयतिएकति । ननु धूमाग्नयोरप्येकप्रमाणवेद्ययोरनुमापकत्वमनुमेयत्वं च दृश्यत इत्यत्राह-सहदृष्टामिधूमवदिति । एकप्रमाण वेद्यत्वमेकदा निश्चितत्त्वमित्यर्थः । अत्र कैश्चिद्भेदानां परिमाणादित्यत्र भेदानां-- कार्याणां परिमाणात्-स्वाधिकपरिमाणकारणजन्यत्वस्य सिद्धत्वान्महदादिकार्यापेक्षयाधिकपरिमाणमव्यक्तं सिद्धं इति व्याचक्षते । तन्मतमाह-यदप्याहुरिति । वस्त्रादिष्विति । तथा च विरुद्धमिति भावः । व्यभिचारमप्याह-अव्यक्तस्यचेति । भिनत्ति-तरति ।
भावप्रकाशः गमतस्सिध्यताति नायकसरे (२५) वक्ष्यते । ततश्चैतत्पक्षेऽर्थान्तरमित्यपि बोध्यम् । माठरवृत्त्यनुयायिकल्पितमर्थं दूषयितुमनुवदति ।
* यदप्याहुरिति-~~'कारणगुणात्मकत्वात् । समन्वयात् ' इति . हेतुद्वयस्यैकत्रैव पर्यवसानस्य तत्वकौमुद्यां व्यक्ततया कार्येषु कारण