________________
सर:]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
121
सर्वार्थसिद्धिः महत एव सहकारिभेदा* त्सर्ववृत्त्यविरोधात् । अत एव शास्त्रतो महदादितत्त्वसिद्धावपि तेषां पृथक्करणत्वं वृत्त्याश्रयत्वं वा न कल्प्यं । एवं चक्षुरादिष्वालोचनोक्तिरपिनेया। न द्वितीयः महदादीना* मागमतास्सिध्यतां साक्षात्परम्परया वा प्रधानजन्यत्वसिद्धरनुमातव्याभावात् ।
आनन्ददायिनी कारण (अस्मीदन्ताकारण) ज्ञानं आदिशब्दार्थस्तु सङ्कल्पाभिमानौ । सहकारिभेदात्त त्तगोळकाधिष्ठानभेदात् । शास्त्रतोमहदादीनसिद्धयङ्गीकर्तुः पृथक्करणत्वं वृत्तिभेदश्चसिद्ध इति । अन्तःकरणत्रैविध्यदूषणं सिद्धान्तिनो? सङ्गतमित्यत्राह-~अत एव शास्त्रत इति । एकस्यैव वृत्तिभेदसंभवादिति भावः । एवं चक्षुरादिष्विति ।
रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः--
इति बाह्येन्द्रियस्यान्तरिन्द्रिय भेदकवृत्ति भेदकल्पनमपि नोप। पद्यते । आलोचनसङ्कल्परूपवृत्त्यारोप एकत्रैवोपपत्तेरिति भावः । एवं सर्ववृत्तीनामेकाश्रयत्वेसति चक्षुरादिष्वाप्तागमेष्वालाचनाख्यवृत्त्य. भेदोक्तिरपि राज्यं सुखमितिवद्गौण्यावृत्त्या नेतव्या स्यादित्याहएवं चक्षुरादिष्वितीत्यप्याहुः । महदादीनामनुमानसिद्धानां पक्षत्वा मागमसिद्धानां पक्षत्वं वेत्याद्यविकल्पे द्वितीयं दूषयति-न द्वितीय इति। साक्षात्परम्परया वेति । प्रकृतेन्महान्महतोऽहङ्कार इत्येवंरूपेण सिद्धे
भावप्रकाशः * सर्ववृत्त्याविरोधादिति-एतदाप तत्रैव हेतुः । . ..* आगमतस्सिध्यतामिति–जगतोऽपरिमितब्रह्मोपादानकत्वमा