________________
118 .
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः च द्रव्यत्वं नावश्यापेक्षितं । न च स्वप्ने व्याघ्रायभिमानादहङ्कारक्लप्तिः । मनसैव तादृशसंस्कारसध्रीचा तदुपपत्तेः। निश्वासादिहेतुभूतप्रयत्नाधारतया महत्क्लप्तिरप्ययुक्ता । अंहष्टवशादेव बाह्यस्येव आन्तरस्यापि मरुतस्स्पन्दोपपत्तेः। न चादृष्टस्यापि महत्तत्वाश्रयत्वं इतः पूर्व सिद्धं । यदा च ईश्वर प्रयत्नाधीनत्वं उच्छासादेस्सेत्स्यति । तदा क्षेत्रज्ञस्यापि न
आनन्ददायिनी
व्या(प्ति)प्त्यादिज्ञानस्य(क)? कारणत्वदर्शनाव्यभिचार इति भावः । वृत्तिभेदान्मनः क्लप्तिं दूषयित्वा तद्भेदादहङ्कारक्लप्तिं दूषयति-न च स्वप्न इति । एवमध्यवसायस्याप्यन्यथा सिद्धया न महत्तत्त्वसिद्धिरिति द्रष्टव्यं । ननु निश्वासादि हेतुप्रयत्नाधारतया महत्सिद्धिारति (त्युक्तमितिचेत् ) चेत्तत्राह निश्वासादिहेतुभूतेति । नन्वस्तु तादृशादृष्टाधारतया महसिद्धिरित्यत्राह-नचादृष्टस्यापीति । तथा च व्याप्तयसिद्धिरिति भावः । कैमुतिकन्यायेनापि महतः प्रयत्नानाधारत्वमित्याह-यदेति ।
भावप्रकाशः कार्यद्रव्यत्वान्निश्चयवृत्तिमद्दव्योपादानकं । इति वंशीधरोक्तानुमानमपि प्रतिक्षिप्तं । अभिमानकार्यद्रव्यत्वस्योपादानद्रव्येऽभिमानवृत्तिसाधनाशक्तत्वात् । कारणगुणात्मकत्वात्कार्यस्यति प्रक्रियानुसारे च महदादावप्यभिमानाङ्गीकारप्रसङ्गात् । अतीन्द्रियेऽर्थेऽभिमानकार्यद्रव्यत्वादिहतोरनुमानेन साधनासम्भवाच्छुत्यालम्बेतु तस्यैव शरणत्वेनानुमानाप्रसराच्च