________________
सरः
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
सर्वार्थसिद्धिः जीवनपूर्वकः प्रयत्नः कल्प्यः। किमुतकस्य चिदचिद्दव्यस्य । परिमितत्वन्तु महतः कुतस्त्यं ? अन्तर्देहमेव तत्प्रवृत्युपलंभादितिचेन्न । त्वत्पक्षे विभोरप्यात्मनश्शरीरावाच्छन्नप्रदेश एव व्यापारावेशवद्विभोरपि महतस्सहकारिविशेषसामर्थ्याक्वाचिकप्रवृत्तिसंभावात् । न च वृत्तिभेदमात्रादन्तःकरणभेदक्लप्तियुक्ता; कामस्सङ्कल्प इत्यादिना 1* मनस्येव बहुविधवृत्ति
आनन्ददायिनी
उच्छासनिश्वासादिकं परप्रयतेनैव लोहकारभस्त्रिकान्यायेनोपपाद्यमिति भावः । भेदानां परिमाणादित्यनुमाने अश्रयासिद्धिमुक्ता स्वरूपासिद्धिमप्याह-परिमितत्वं (त्वं) चेति । प्रकारान्तरेण लिङ्गसिद्धिं शङ्कते--अन्तरिति । तत्प्रवृत्तिः-प्रयत्नाध्यवसायादिः । व्यापारावेशः मुखे दर्पणमालिन्यसम्बन्ध इवातात्विकः-कृत्यध्यवसायसंस्पर्शः? (काचित्कः)? (तात्विकः)? सहकारिविशेषः--क्वाचित्कशरीरयोगादिः । अध्यवसायस्य प्रमारूपत्वादिति भावः। संस्पृश्यतेऽनेनेति सहकारि वृत्तिविशेषादन्तः करणकल्पनेऽपि 'अन्तःकरणं त्रिविधमिति' त्रैविध्यकल्पन मनुपपन्नमित्याह-नचवृत्तीति । एकस्यैवानेकवृत्तिसम्भवादिति भावः । तत्र श्रुतिबाधमप्याह-'कामस्संकल्पइति'। सर्वशब्देनाध्यवसायादीनां धीभेदानां ग्रहः । यद्वा
भावप्रकाशः ... * मनस्येवेति । तकालम्बिगोष्ठयां लाघवस्य बहुमानाई