________________
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
117
सर्वार्थसिद्धिः संकुचन्ती कर्मोत्पन्नैरेव द्वारैः यथाकर्मप्रसरतीति तु त्रय्यन्तवृद्धाः । नापि सङ्कल्पादिभिर्मनः क्लुप्तिः। संस्कारप्रणाळ्यापि तदुपपत्तेः। अन्यथामनसापि तदुत्पादनायोगात्। 1* करणस्य
आनन्ददायिनी
इत्युक्तेरित्यर्थः । आलोच्य–मयेदं कर्तव्यमिति योऽयं चितिसन्निधनादापन्नचैतन्याया बुद्धेर्निश्चयः सोऽध्यवसायः । स च बुद्धेर्महतोऽसाधारणधर्मः । तस्य बुद्धिकार्यत्वात्तदभेदेन निर्देशः । आलोच्यात्राहमधिकृतो मदर्थाएवामी विषयाः अहमस्मीति योऽयमभिमानः साहङ्कारस्यवृत्तिः चक्षुरादिना संमुग्धाकारेण वस्तुग्रहणे इदमित्थमिति । विशेषणविशेष्यभावेन ग्रहणं मनसेति तादृशसम्यक्क(ल्प्य)ल्प्यः सविकल्पाध्यवसायो मनोवृत्तिरिति तदर्थः । कर्मोत्पन्नेरिति । तथा च कर्मोत्पन्नचक्षुरादिभिरन्यथासिद्धयार्था ? कादाचित्कप्रसरबलान्न महदादिसिद्धिारति भावः । संस्कारप्रणाड्येति । संस्कारसहितादात्मन एव वा चक्षुरादितोऽपि वा तदुपपत्तेरित्यर्थः । यद्वा-संस्कारादेवेत्यर्थः । संस्कारस्यावश्यकतामाह-अन्यथेति। ननु संस्कारस्य न सङ्कल्पादिकरणत्वं गुणत्वादित्यत्राह-करणस्य चेति । प्रत्यक्षं प्रतीन्द्रियार्थसन्निकर्षादेरिवानुमि(तौ)त्यादौ
भावप्रकाशः
. * करणस्य चेत्यादि । एतेन तन्मात्रेन्द्रियाणि अभिमानकार्यद्रव्यत्वादभिमानवृत्तिमद्रव्योपादानकानि । अहङ्कारद्रव्यं निश्चय