________________
सर:
त्रिगुणपरीक्षायां प्रकृत्यनुमानानरासः
HUN
सर्वार्थसिद्धिः यत् कार्य तत् कारणगुणात्मकं यथा तन्त्वादिगुणात्मकं पटादि तथा महदादिकार्यजातमपि सुखदुःखमोहात्मकतया स्वकारणगतसुखदुःखाद्यात्मकं भवति । अतस्तत्कारणं सुखदुःखाद्यात्मकं प्रधानमिति । तत्र पटादेः किमिदं कार
आनन्ददायिनी सुखदुःख मोहात्मकतयेति । इत्थं साङ्ख्यप्रक्रिया-सर्व कार्यजातं सुखदुःखमोहात्मकं । यथा स्त्री रूपयौवनकुलादिसंपन्ना स्वामिनं सुखाकरोति स्वामिनं प्रति सुखात्मकत्वात् । एवं पुरुषान्तरं मोहयति तं प्रति मोहात्म
भावप्रकाशः स्वगुणसरूपगुणकारणकत्वानुमानमपि अनैकान्त्यदुस्स्थमिति ; परत्र चाचार्यवाक्ये व्यक्तम् । अत एवात्र वंशीधरेण महदादि सुखदुःखमोहद्रव्योपादानकं कार्यत्वे सति तद्विशेषगुणवत्त्वात् इत्यनुमानप्रयोगान्निष्कर्षितः । मूलस्याप्यत्रैव तात्पर्यमिति माठरवृत्तौ स्पष्टं; यथा-'कारणस्य गुणाः कारणगुणाः ते अत्मा स्वभावो यस्य तद्भावः कारणगुणात्मकत्वं । आत्मशब्दः स्वभावे वर्तते । कारणगुणस्वभावत्वात्कार्यस्य इह लोके यदात्मकं कारणं तदात्मकमेव कार्यमपि भवतीति । महदादीनां सुखदुःखमोहात्मकत्वं-त्रिगुणं . . . ११॥ प्रीत्यप्रीतिविषादात्मकाः ... गुणाः १२॥ इति कारिकायोः व्यक्तं । अत्र वाचस्पतिः-त्रिगुणमिति । त्रयो गुणा अस्येति त्रिगुणं । तदनेन सुखादीनामात्मधर्मत्वं पराभिमतमपाकृतमित्याह । उत्तरत्र च १३. यत्सुखहेतुः : तत्सुखात्मकं सत्वं यद्दःखहेतुः तदुःखात्मकं रजः यन्मोहहेतुः तन्मोहात्मकं तमः इति तदेवासाधयत् । अत्र वंशीधरविवरणं-तदनेनेति-'कामस्सङ्कल्पः