________________
102
सव्याख्यसर्वाधीसद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः न पुनरनुमया व्याप्तिलिङ्गाद्यसिद्धेः ।
सर्वार्थसिद्धिः *ननु साङ्खयोक्तैरनुमानैः प्रधानादिसिद्धिस्स्यादित्यत्राह - न पुनरनुमयेति । न त्वनुमानैरित्यर्थः। तत्र हेतुः-व्याप्तिलिङ्गाद्यसिद्धेः । यथासम्भवं व्याप्तिलिङ्गपक्षदृष्टान्तानामसिद्धेरित्यर्थः । तथा हि-यत्तावदुक्तं । . . कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धमिति । 2*अयमर्थः
आनन्ददायिनी पन्नं; अनुमाशब्दस्यानुमितिपरत्वेन तजन्यप्रतीत्यभावादित्यत्राह ---- न पुनरनुमयेति अनुमारित्यर्थः इति । अनुमाशब्दः करणपरो जात्येकवचन इति भावः। आदिशब्दार्थमाह-पक्षदृष्टान्तेति । साङ्ख्योक्तं प्रकृत्यनुमानं दूषयितुमनुभाषते—यत्तावदुक्तमिति । काकस्य कार्पोद्धवलः प्रासाद .. इलिवदसंगतमित्यत्राह-अयमर्थ इति ।
भावप्रकाश * नन्वित्यादिना । तत्राव्यक्तसाधनार्थप्रवृत्तसाङ्ख्यसप्ततिकारिकार्थमनुवदति -- कारणेत्यादिना । तत्र साङ्ख्यतत्वकौमुदीमनुसृत्य कारिकार्थमाह -- * अयमर्थ इत्यादिना । अत्र 'महदादिकार्येण - सुखदुःखमोहरूपेण . स्वकारणगतसुखदुःखमोहात्मना भक्तिव्यमिति' वाचस्पतिवाक्येन कार्यत्वे - सति यद्धर्मवत्त्वं यत्र तत्र कारणगततद्धर्मात्मकत्वमिति व्याप्तिस्सूच्यते । एतच्च अत्र कार्याणां