________________
104
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः णगुणात्मकत्वं? किं कारणगुणतादात्म्यं उत कारणं प्रति गुणभूतत्वं अथ अप्रधानत्वं 'कारणगुणैर्गुणित्वं वा तत्सजातीयगुणवत्त्वं वा?
भावप्रकाशः ... एतत्सर्वं मन एव' । 'तीर्णो हि तदा हृदयस्य शोकात् कामादिकं मन एव मन्यमानः' इत्यादि श्रुतिविरोधादिति तात्पर्यार्थ इति। एवं (२२३) तथा च विमतानि बाह्यानि सुखाद्यात्मकानि तद्धेतुत्वात् बुद्धयादिवत् । नचानुकूलतर्काभावः यस्यान्वयव्यतिरेको सुखादिना दृश्येते तम्यैव सुखाद्युपादानत्वं कल्प्यते ; तस्य निमित्तत्वं परिकल्प्यान्यस्योपादानत्वकल्पने कारणद्वयकल्पनागौरवं । तथाच लाघवमेवानुकूलतर्कः। .
तत्सन्तु चेतस्यथवाऽपि देहे सुखानि दुःखानि च किं ममात्र। इति मार्कण्डेयपुराणवचनाच्च । ' याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपाञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्मविद्वान् इति दिशो वेद सदेवास्सप्रतिष्ठा इति यदिशो वेत्थ सदेवास्सप्रतिष्ठा (बृहदा ३-९-१९) किंदेवतोऽस्यां प्राच्यां दिश्यसीति आदित्यदेवत इति ; स आदित्यः - कस्मिन् प्रतिष्ठित इति ? चक्षुषीति ; कास्मन्नु चक्षुः प्रतिष्ठितमिति ? रूपेष्विति ; चक्षुषा हि रूपाणि पश्यति ; कस्मिन्नु रूपाणि प्रतिष्ठितानीति ? हृदय इति होवाच ; हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठानि भवन्तीत्येवमेतद्याज्ञवल्क्य ' (बृ ३-९-२०) इत्यादि बृहदारण्यश्रुत्या सर्वेषां बाह्यानां बुद्धिकार्यत्वावधारणेन सुखद्यात्मकत्वस्य सूचनाच्छ इत्यादि । 'तादात्म्यमभेदो भेदाभेदो वा। 2-3*द्वितीयतृतीयविकल्पयोः मूलप्रकृतेः प्रधानशब्देन व्यपदेशात् महदादेश्च तथाऽव्यपदेशात् महदादेर्गुणतया कारणगुणात्मकत्वं युज्यते इति भावः। *चतुर्थपञ्चमविकल्पयोः त्रिगुणमविवेकीत्यादिषु-तेषां गुणाश्रयत्वव्यवहारो मूलं ।