SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सर:] त्रिगुणपरीक्षायां उदयनमतनिरासः 95 सर्वार्थसिद्धिः तदे'*तदपष्टु। नियतक्रमानुपूर्वप्रकृतिविकृति -परम्परोपदेशात् । आनन्ददायिनी नियतक्रमेति--प्रकृतिविकृतिभावस्य द्रव्यधर्मत्वादिति भावः । ननु न प्रकृतेर्महानिति प्रकृतिशब्देनोपादानमुच्यते ; अपि तु निमित्तमात्र भावप्रकाशः इति कुसुमाञ्जलिप्रथमस्तबकान्तिमश्लोकः । इमं च कुसुमाञ्जलिप्रकाशे वर्धमानः-(203-204 पृ.) व्याचकार-'यस्य देवस्य एषा अदृष्टरूपा सहकारिशक्तिः-सहकारिकारणं असमा मायेत्युदिता ' यन्मायाप्रभवं विश्वम् ; इत्यत्र मायाशब्देनादृष्टस्याभिधानात् । असमत्वे हेतुः दुरुन्नीतितः ; अदृष्टमाययोर्महाविचारोन्नेयत्वात् । 'प्रकृति प्रभवं विश्वं, इत्रणाप्यागमे अदृष्टरूपा शक्तिरेव प्रकृतिरुदिता। कुतः मूलत्वात् मूलकारणमेव प्रकृतिशब्दार्थः । अदृष्टं च तथा । अविद्याप्रभवत्वागमे सैवाविद्येत्युदिता । यतः प्रबोधात् तत्वज्ञानात् उभयोरपि भीतिः अविद्यावत् तज्जनकादृष्टस्यापि ततो भयात् तत्वज्ञाने तदनुत्पत्तेः' इति । * अपष्ठिति । 'अपदुस्सुषु स्थः' इति कुः । अपार्थमित्यर्थः । धर्माधर्मरूपादृष्टस्य तन्मते जविगतत्वेन मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ।। : इति श्रुत्याद्यसमञ्जसं स्यात् । एवं 'अजामेकां लोहितशुक्लकृष्णाम्' इत्यादिरूपवत्त्वाम्नानमप्यसङ्गतं स्यात् इति भावः । * परम्परोपदेशादिति---उपदेशश्च श्रुतिपुराणादौ - बोध्यः । अतीन्द्रियजगत्कारणविषये अनुमानप्रवृत्तिं भवदभ्युपगतामनुसरन्तः
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy