SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 94 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः न्यायानुग्रहमात्रेण बलाबलदृष्टया विरोधशान्तेः । कोचित्तु प्रकृत्यादिशब्दै *रदृष्टादिकं कथ्यत इत्याहुः । यथाहोदयनः-- " इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतितो मूलत्वात्प्रकृतिः। * इत्यादि । आनन्ददायिनी। यबलादुभयोरविरोधस्यैव स्थि(र)तत्वात् । चतुर्धातुवाक्यं चतुर्णा म्वरूपप्रतिपादनमात्रेणापि प्रामाण्यमश्नुते । न तदर्थमितरनिषेधमपेक्षते। ' चतुर्विंशतिवाक्यं तु न्यूनपरं चेन्न प्रामाण्यं लभते इति न विरोध इति भावः । ननु चतुर्विंशातवाक्यस्य चतुर्विंशतितत्वपरत्वं नावश्यं वाच्यं ; अन्यथाऽपि प्रामाण्योपपत्तेरिति नैयायिकमतमनुभाषतेकचित्त्वित्यादिना । प्रथमादिपदेन महदहङ्कारादिशब्दग्रहणं । द्वितीयादिपदेन बुद्धिविशषचेतनगुणौ गृह्यते । कुसुमाञ्जलिसमतिमाहयथाऽऽहेति । सहकारिशक्तिः सर्वकार्यसहकारिकारणं, अदृष्टमित्यर्थः । दुरवबोधत्वान्मायाशब्दवाच्यतापीत्याह - दुरुन्नीतितः । तस्य प्रकृतिशब्दवाच्यताऽपि युक्तेत्याह .. - मूलत्वात्प्रकृतिरिति । आवप्रकाशः _'* अदृष्टादिकामिति- अदृष्टबुद्धिविशेषाहमाभिमानाः प्रकृतिमहदहकारशब्दार्थाः । तन्मात्राणि च सूक्ष्मभूतान्येव । कर्मेन्द्रियाणि तु तत्तदधिष्ठानान्येवेति । * ' इत्यादीतिप्रबोधभयतोऽविद्येति यस्योदिता । देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकालाहलः साक्षात्साक्षितया मनस्याभिरतिं बनातु शान्तो मम ॥ .
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy