SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ संरः त्रिगुणपरीक्षायां लोकायतनिरासः 93 सर्वार्थसिद्धिः भूतार्थप्रतिसन्धाताऽप्यभ्युपगन्तव्यः। अस्तु तर्हि' * षड्धातुवादः *अध्वर्युभिस्तथाध्ययनात् इति चेत् *तयुद्भातृभिश्चतुर्णामध्ययनाच्चतुर्धातुवादः स्यात् । अनुक्तमविरुद्धमन्यतो ग्राह्यमिति चेत्समानं भूयसां च प्राबल्यात् । * उपबृंहणप्राचुयाच्च । न चात्र मिथो विरोधानिरर्थकार्थवादमात्रता। सम्य आनन्ददायिनी तत्रानुभूतार्थप्रतिसन्धानं-स्तन्यपानादीष्टसाधनतास्मृतिः । अभिन्नभवे - बाल्ये अनुभूतस्य प्रतिसंन्धानं-तत्स्मृतिः । षड्धातुवादः-षट्तत्ववादः । अध्वर्युभिरिति-" तस्माद्वा एतस्मादात्मन आकाशस्संभूतः” इत्यादिना यजुर्वेदेऽध्ययनादित्यर्थः । उद्गातृभिरिति-" सदेव सौम्येदमग्र आसत्तित्तेजोऽसृजत ता आप ऐक्षन्त ता अन्नमसृजन्त" इत्यादिवाक्यरित्यर्थः । ननु विभागेनोद्देशेनेतरव्यवच्छेदाद्विरोध इत्यत्राह-भूयसां चेति। भूयसां-चतुर्विंशतितत्वप्रतिपादकानामिति शेषः । विरोधाङ्गीकारेऽपि न तत्प्रतिबन्धीति भावः । भूयस्त्वमसिद्धमित्यत्राह-उपबृंहणप्राचुर्यादिति । तथाच अनुग्राहकप्राचुर्यमपि प्राबल्यप्रयोजकमविशेषादिति भावः । ननु भूयस्त्वमप्रयोजकं; शतमप्यन्धानां न पश्यतीति न्यायादित्यत्राह-नचात्रेति । सम्यङ्न्या भावप्रकाशः 1* षड्धातुवादः-आत्मपञ्चभूतरूपषट्पदार्थवादः। *अध्वर्युभिः--यर्जुर्वेदिभिः। *उद्गातृभिः सामवेदिभिः। * भूयसां अतिरिक्तप्र. दिपादकानां मैत्रायणीयसुबालमहोपनिषदादीनां । ____उपबृंहणति । विष्णुपुराणभारताद्युपबृंहणवचनान्याचार्यैः न्यायसिद्धाजनादावुदाहृतानि ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy