________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
नाद्यः असम्मतेः, गुरूक्तेश्च 1* विरोचनोपदेशवदसुरमोहनार्थत्वात् । न द्वितीयः उक्तेषु विवादाभावात् । अधिकानां निषेधस्य निष्प्रमाणकत्वात् । अनुपलब्ध्या निषेध इति चेन्न; योग्यानुपलब्धेरभावात् । इतरस्य निषेधकत्वायोगात् । उपलब्ध्या चेञ्चतुणोमुपादानं आकाशेन किमपराद्धम् । अस्ति ह्यासंसारं तदुपलम्भः । न चात्रास्पर्शत्वादिभिर्वाधः । अरूपत्वादिना वाय्वादेरपि निवप्रसङ्गात् । शेषं च वक्ष्यामः । अथ उपलम्भबलादस्त्वाकाशमपीति चेत् । तथैव भिन्नाभिन्नभवानु
आनन्ददायिनी
. वत्" इत्यादिनेत्यर्थः-विरोचनोपदेशवदिति-ब्रह्मणा मोहनार्थ विरोचनं प्रत्युपदेशवदित्यर्थः । अधिकानामिति-संख्याविशेषात्तन्मूलभूतप्रमाणेनाधिकनिषेधः कर्तव्यः । आगमबाधे(न)तदनुमानायोगादिति भावः । इतरम्य । अनुपलब्धिमात्रम्य । अस्ति हीति-इहाकाशे विहगः पततीत्याबालमुपलम्भादित्यर्थः । अरूपत्वादिनेत्यादिशब्दवयेन गन्धवत्त्वाभावाजलम्य स्नेहवत्त्वाभावात्तेजसश्चेति विवक्षितं । ननु महत्त्वे सत्युद्भतम्पर्शवत्त्वं बाह्ये (यैके) न्द्रियग्राह्यस्पर्शवत्त्वं वा द्रव्यप्रत्य(क्षे)क्षत्वे तत्रं ; अनुगतसंभवे तत्परित्यागायोगादिति चेत्तत्राहशेषं चेति--आकाशनिरूपणे इत्यर्थः । भिन्नभवो-जन्मान्तरं
भावप्रकाशः * विरोचनोपदेशवदिति-छान्दोग्याष्टमप्रपाठकाष्टमखण्डे विरोचने प्रति प्रजापत्युपदेशोऽवसेयः॥