________________
सरः]
त्रिगुणपरीक्षायां लोकायतनिरासः
91
सर्वार्थसिद्धिः
एवं द्रव्याद्रव्ये सामान्यतः प्रसाध्य द्रव्येषु प्रथमोद्दिष्टं त्रिगुणमादौ परीक्ष्यते । तत्र काश्चदाह-धीमन्निदर्शनतया प्रसिद्धस्सुरगुरुर्लोकायतं शास्त्रमारभ्य पृथिव्यादीनि चत्वार्येव तत्वान्याह। अधिकानि तु तावन्मात्रविभागोद्देशादपोढानि । अतिरिक्तचेतननिषेधाच्चेति । अत्र किं लोकायतसूत्राणि स्वयंप्रमाणतयोपादीयन्ते । तदुपस्थापकतया वा ?
आनन्ददायिनी लीनत्वे सामग्रयैक्यात्कार्यंक्यप्रसङ्गः । प्रागभावभेदस्य प्रतियोगिभेदाधीनतया तदसिद्धावसिद्धेः । भिन्नकालत्वे तु विशेषणस्य पूर्वत्वे निराधारकार्योत्पत्तिप्रसङ्गः । विशेष्यपूर्वकत्वे तु गुणाश्रयो द्रव्यमिति द्रव्यलक्षणव्याघातः । न च गुणात्यन्ताभावानधिकरणत्वेन निर्वाहः अत्यन्ताभावानधिकरणत्वं नाम अत्यन्ताभावाभावाधिकरणत्वं ; तथा च अभावाभावस्य भावात्मकत्वात् गुणाधिकरणत्वमित्यर्थम्स्यात् । तथाचोक्तदोषानतिक्रान्तिः । गुणात्यन्ताभावस्यैकत्वे तत्रैवातिव्याप्तिः । अनेकत्वेऽनवस्थेत्यादिकमूह्यमिति ॥१०॥
इति द्रव्यातिरिक्तधर्माक्षेपपारहारः.
प्रकृत्यादौ विप्रतिपत्त्यभावात्तत्र प्रमाणोपन्यासवैफल्यमाशङ्कयाह-द्रव्याद्रव्ये इति । धीमन्निदर्शनतया–बुद्धिमद्दष्टान्ततया। लोकायतं शास्त्रमारभ्येति-' अथ लोकायतं शास्त्रं । पृथिव्यादीनि चत्वार्येव तत्वानि । तेभ्यश्चैतन्यं किण्वादिभ्यो मदशक्ति