________________
88
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः विशिष्टं नास्तीत्यपि विशिष्टमात्थ । तञ्च विशिष्टविषयस्वधीविरुद्धमिति । सन्त्यन्येऽपि धर्मधर्मिभावभञ्जकाः परेषां
आनन्ददायिनी . स्वधीवाग्विरोधं दर्शयति--विशिष्टं नास्तीत्यपीति । स्वधीवाग्विहतिमुपपादयति-तच्चेति । अनेन वाक्येन विशिष्टाभावविषयिणी विशिष्टबुद्धिर्जायमाना विशिष्टसाधिकेति । तया वाचा धियो विरोध इति
भावप्रकाशः
वस्तुरूपं सन्निवेशोपाधिधर्मात्मकं । तत्र यन्न भ्राम्यति तदभ्रान्तं । एतच्च लक्षणद्वयं विप्रतिपत्तिनिराकरणार्थ । न त्वनुमाननिवृत्त्यर्थं ; यतः कल्पनापोढग्रहणेनैवानुमानं निवर्तितं । तत्रासत्यभ्रान्तग्रहणे गच्छद्रुक्षदर्शनादि प्रत्यक्षं कल्पनापोढत्वात्स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रमाप्यत इति सम्पादकत्वात्सम्यक्ज्ञानं कल्पनापोढत्वाच्च प्रत्यक्षमिति स्यादाशका । तन्निवृत्त्यर्थमभ्रान्तग्रहणं । तद्धि भ्रान्तत्वान्न प्रत्यक्षं । त्रिरूपलिङ्गजत्वाभावान्नानुमानम् । न च प्रमाणान्तरमास्त । अतो गच्छाक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवति । यदि मिथ्याज्ञानं ; कथं ततो वृक्षावाप्तिरिति चेत् ; न ततो वृक्षावाप्तिः । नानादेशगामी हि वृक्षः । तेन परिच्छिन्नः एकदेशनियतश्च वृक्षोऽवाप्यते । ततो यद्देशो गच्छद्वक्षो दृष्टस्तद्देशो नावाप्यते । यद्देशश्चावाप्यते स न दृष्ट इति न तस्मात्कश्चिदर्थोऽवाप्यते ज्ञानान्तरादेव तु वृक्षादिरर्थोऽवाप्यते इत्येवमान्तग्रहणं विप्रतिपत्तिनिरासार्थ । भ्रान्तं झनुमानं । स्वप्रतिभासेऽनर्थेऽध्यवसायेन प्रवृत्तत्वात्' इति व्याचख्यौ ।