________________
सरः]
द्रव्यातिरिक्तधर्माक्षेपपारहारः
तत्त्वमुक्ताकलापः तद्वदन्येऽपि जल्पाः ॥ १० ॥
सर्वार्थसिद्धिः प्रसङ्गाः। ते कथमुद्धार्या इत्यत्राह-तद्वदन्येपि जल्पा इति । अन्यपि-नित्यसमादिरूपाः शुष्कप्रलापाः। तद्वत्-निरस्तवाक्यैस्तुल्यं वर्तन्ते । उत्थानपरिहारप्रकारभेदेऽपि स्वव्याधातादिदोषाविशेषादित्यर्थः।
घटकुडयवदन्यत्वेऽनन्यत्वे तु स्वरूपवत् । न गुणस्य गुणत्वं स्यादित्यसत् स्वोक्तिबाधतः ॥ दूष्यादन्यदनन्यद्वा दूषणं न तु दूषणम् । गर्दभादिवदन्यत्वेऽनन्यत्वे दूषणीयवत् ॥
__आनन्ददायिनी भावः । नित्यसमादिरूपेति-क्वचित्साहचर्यदर्शनमात्रेण व्यापकापादनं नित्यसमः । आदिशब्देनोत्कर्षसमादयो गृह्यन्ते । मतुबन्तता भ्रान्ति वारयति–निरस्तवाक्यैरिति । ननु कथं तुल्यत्वं ? उत्थानस्य परिहारस्य च भिन्नत्वादित्यत्राह-उत्थानेति । व्याघातांशमादाय तुल्यत्वमित्यर्थः । अन्येऽपि जल्पा इत्युक्तांशं दर्शयति-घटकुड्यवदिति । धर्मधर्मिणोभेंदोऽभेदो वा? आधे घटकुड्यवद्धर्मधर्मिभावो न स्यात् । द्वितीये स्वरूपवद्धर्मधर्मिभावो न स्यादित्यर्थः । स्वोक्तिबाधत इति--सिद्धयसिद्धिरूपव्याघातादित्यन्य । अनुमानेन धर्मधर्मिभावखण्डने अनुमानस्य धर्मधर्मिप्रतिपादकोदाहरणोपनयरूपस्वोक्तिविरोधादित्यर्थ इत्यपरे । जातिरूपतया स्वव्याघातकत्वादित्यप्याहुः । दूषणस्य स्वव्यापकत्वमेव दर्शयति--दूष्यादन्यदितिः-दूषणं दूष्यादन्यन्न वा ? उभय