SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सर:] द्रव्यातिरिक्तधर्माक्षेपपरिहारः 87 सर्वार्थसिद्धिः रिति प्रत्येकसमुदायपरं योज्यं । कथं विशिष्टधीविरहे तवापि तद्विषयव्याहारव्यवहारौ ? उदाहरणोपनयौ च वस्तुतस्तद्धर्मविशिष्टविषयौ । बुद्धिस्स्वप्रकाशा 1* अभिन्नदेशकालं स्वलक्षणं कल्पनापोढमभ्रान्तं प्रत्यक्षं प्रतिवादिवाक्यमसाधकं आनन्ददायिनी - - नातो द्वन्द्वाचुदषहान्तात्समाहार इति समासान्तः । स्वधिया विहतिं दर्शयति-कथमिति। तद्विषयेति। उक्तिः व्याहारः । व्यवहारःप्रवृत्त्यदिः । तयोविशिष्टधीसाध्यत्वादित्यर्थः। स्ववाग्विरोधमाह-उदाहरणेति । उदाहरणं दृष्टान्तवाक्यं । उपनयः-संश्च शब्दादिरिति वाक्यं । भावप्रकाशः 1*अभिन्नदेशकालं स्वलक्षणमिति। अत्रोदाहृतन्यायबिन्दुवाक्यान्यनुसन्धेयानि। *कल्पनापोढमित्यादि। अत्र धर्मोत्तराचार्यः-'तत्र प्रत्यक्षत्वमनूद्य कल्पनापोढत्वमभ्रान्तत्वं च विधीयते । यत्तद्भवतामस्माकं चार्थेषु साक्षात्कारि ज्ञानं प्रसिद्धं तत्कल्पनापोढाभ्रान्तत्वयुक्तं द्रष्टव्यम् । न चैतन्मन्तव्यं ; कल्पनापोढाभ्रान्तत्वं चेदप्रसिद्धं किमन्यत्प्रत्यक्षस्य ज्ञानस्य रूपमवशिष्यते ; यत्प्रत्यक्षशब्दवाच्यं सदनूद्यतेति । यस्मादिन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साक्षात्कार ज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां सिद्धं । तदनुवादेन कल्पना पोढाभ्रान्तत्वविधिः । कल्पनापोढम्—कल्पनास्वभावरहितमित्यर्थः अभ्रान्तं-अर्थक्रियाक्षमें वस्तुरूपेऽविपर्यस्तमुच्यते । अर्थक्रियाक्षम :
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy