SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 86 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे. [जडद्रव्य तत्वमुक्ताकलापः नोक्तौ दोषौ स्वधीवाग्विहतिरितरथा सर्वार्थसिद्धिः बाधस्याशामोदकायमानत्वात् * विकल्पप्रामाण्यं च वक्ष्यते। अतो यथादर्शनं क्वचित्किञ्चिद्वतते न स्वस्मिन् इति व्यवस्थिते त्वदुक्तौ व्याघातात्माश्रयदोषौ न स्त इत्याह-अतो नोक्तौ दोषाविति । अन्यथा अनिष्टमाह-स्वधीवाग्विहतिरितरथेति । स्वधीविहतिः स्ववाग्विहतिः, स्वधीवाग्विहति आनन्ददायिनी योर्बाधकयोरद्याप्यलब्धजीवितत्वादित्यर्थः । ननु सर्वविकल्पानां वासनानिर्मिततया प्रकारद्वयेनापि विषयव्यवस्थापकत्वमनुपपन्नमित्यत आहः-- विकल्पेति----बुद्धिसर इति शेषः । स्वधीवाग्विहतिरिति--- धीश्च वाक्चेतीतरेतरयोगे द्वन्द्वसमासः । भावप्रकाशः कारकब्रह्मज्ञानं त्वप्रमेत्यभ्युपेयते इति शङ्कायामाह----'विकल्पप्रामाण्यमित्यादि । * वक्ष्यते इति । बुद्धिसरे (३३) इति भावः । इदमत्र बोध्यं-प्रकारभूतो व्यावर्तकोऽपि धर्मो द्विविधः-----उपलक्षणं विशेपणं चेति । स्वविशेष्यमात्रेऽन्वयि उपलक्षणं स्वविशेष्यान्वितेऽप्यन्वयि विशेषणमिति आवस्य दण्डी कुण्डलीत्यादिकं द्वितीयस्य रूपवान् प्रमेय इत्यादिकमुदाहरणं इति ज्ञानत्वव्यापकं किश्चिन्निष्ठप्रकारतानिरूपितविशेष्यताकत्वमिति नियमस्यानुभवसाक्षिकस्य न बाघ इति ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy