________________
सरः]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
25
सर्वार्थसिद्धिः भ्युपगमे तु * लोकायतावतारात् । इष्यते च अविद्यावासनादि भ्रान्तरपि निदानं भवद्भिः । अत एव न तृतीयः । नापि चतुर्थः स्वपरलोकव्यवहारविरोधादेव । कथं किलासौ विशिष्टप्रतीतिः कथं च निर्विषया ? न पञ्चमः, अद्यापि
__ आनन्ददायिनी दर्दोषः । तदधीनकल्पितविषया विशिष्टधीरित्यर्थः । लोकायतेतिचार्वाकमते कार्यकारणभावाभावादिति भावः । नचेष्टापत्तिः अपसिद्धान्तप्रसङ्गापत्तेरित्याह---इष्यते चेति । अविद्या-दोषः । वासना पूर्वपूर्वसंस्कारः । आदिशब्देनालम्बनसमनन्तरसहकार्यधिपतिप्रत्ययादयः । अत एवेति-तत्कारणतयैव निरूपणसंभवादित्यर्थः । स्वपरेति-- लोको द्विविधः-स्वः परश्चेति । तद्व्यवहारविरोधादित्यर्थः कथं चेति विशिष्टविषया प्रतीतिर्विशिष्टप्रतीतिः । तथा च विशिष्टप्रतीतिनिविषयेति स्ववचनव्याघात इत्यर्थः । अद्यापीति-व्याघातात्माश्रय
भावप्रकाशः ब्रूयात्तत्कस्यचिन्नाम घटः प्रत्यक्ष इत्यपि ।। इति । 1* लोकायतावतारादिति । तन्मते कार्यकारणभावानङ्गीकारे युक्तयः तद्दषणप्रकाराश्च (३१) प्रकाशयिष्यन्ते । ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति पातञ्जलैर्निर्विषयख्यात्यङ्गीकारेण तदभिप्रायेण निर्विषयेति पृथक्कोटिः। ननु स्वलक्षणस्यैव परमार्थसत्त्वेन सप्रकारकज्ञानसामान्यं भ्रमः, वेदवादिभिरपि निर्गुणं ब्रह्मैव परमार्थसत् सगुणं त्वपरमार्थमेवेति निर्विकल्पकं ब्रह्मज्ञानमेव तत्वतः प्रमा. सम