SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः तीतिरेव नास्ति, सत्यपि वा निष्काराणका, सकारणापि वा दुर्निरूपकारणा, निरूपितकारणापि वा निर्विषया, सविषयाऽपि वा बाधितविषया? इति; नाद्यः; लौकिकपरीक्षकबहिष्कारप्रसङ्गात् । '* सर्वशून्यवादिनापि हि संवृत्या विशिष्टधीरिप्यते । न द्वितीयः, कार्यस्य कारणावश्यम्भावात् । तदन आनन्ददायिनी सिद्धान्तिवाक्यं । नन्विति प्रश्नपरं। उत्तरमाह-किमित्यादि । प्रतत्यिा ह्यर्थक्लप्तिर्द्वधा - कार्यत्वेन कारणतया, विषयत्वेन विषयितया वा; उभयथाऽपि न सम्भवतीति प्रथमः कल्पः । कार्यत्वेन कारणतयाऽर्थकल्पनं न संभवति द्वितीयतृतीयौ । विषयविषयितया कल्पनं न संभवतीति चतुर्थपञ्चमाविति विवेकः । संवृति भावप्रकाशः ___ * सर्वशून्यवादिनाऽपीत्यादि । तदुक्तं माध्यमिकवृत्तौ----अपि च लोकव्यवहाराणभूतो घटः पतिनीलादिव्यातिरिक्तो नास्तीति कृत्वा तस्योपचारः कल्प्यते । नन्वेवं सति पृथिव्यादिव्यतिरेकेण नीलादिकमपि नास्तीति नीलादेरप्यौपचारिक प्रत्यक्षत्वं कप्ल्यतां । यथोक्तम्--- - रूपादिव्यतिरेकेण यथा कुम्भो न विद्यते । वाय्वादिव्यतिरेकेण तथा रूपं न विद्यते ॥ इति । तस्मादेवमादिकस्य लोकव्यवहारस्य लक्षणेनासङ्ग्रहादव्यापितैव लक्षणं स्यात् । तत्वविदपेक्षया हि प्रत्यक्षं घटादीनां नीलादीनां च नेष्यते । लोकसंवृत्या त्वभ्युपगन्तव्यमेव प्रत्यक्षत्वं घटादीनां । यथोकं शतके... सर्व व घटो दो रूपे द्रष्टे हि जायते ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy