SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सर:] द्रव्यातिरिक्तधर्माक्षेपपरिहारः 8.3 तत्त्वमुक्ताकलापः न भवति तत एवास्य तच्छून्यताऽतो सर्वार्थसिद्धिः विशेष्ये तद्विशिष्टवृत्त्यभावे तच्छून्यवृत्तिस्स्यादेवेति चेत्तत्राहन भवति तत एवास्य तच्छून्यतेति । यत्र यद्वर्तते तस्य कथं तच्छून्यत्वं ? न च तद्वति वर्तमानस्य तस्मिन्नपि वृत्ति रिति नियमः; घटवति भूतले वर्तमानानां गुणादीनां घटेऽपि वृत्तेरदृष्टेः । एवं घटस्यापि । ननु सर्वत्र वृत्तिविकल्पेन विशिष्टं दूषयतः किं (निदान)? निदर्शनं । किं क्वचिदपि विशिष्टप्र आनन्ददायिनी षिकसौत्रान्तिकमतोपसंहारः । वस्तुतस्तद्विशिष्टे-तदाधारे इत्यर्थः । यत्र यद्वर्तत इति--ततश्च तदाश्रयस्य तच्छून्यत्वं स्वस्य स्वविशिष्टत्वमिति वा विरुद्धं । ततश्च---- तत्कामो यथा गत वेगादुत्प्लुत्य मूढधीः । अन्धः कूपे पतेत्तद्वद्वौद्धो व्याप्तिसमर्थनात् ॥ इति न्यायानुसरणमिति भावः । किञ्च यत्र रूपं न तत्र रूपाभावः यत्र रूपाभावः तत्र न रूपमिति व्याप्तिं वदता रूपस्य वृत्तिरभ्युपगतेति । ततश्च-- अस्मदुक्तं भवान्वक्ति नान्यत्किञ्चन भाषते । पिशाच इव कूटस्थः तस्मात्त्वत्तो बिभेम्यहम् ॥ इति न्याय इति भावः । ननु घटवति भूतले इत्यादृष्टान्तस्यापि पक्षतुल्यत्वात्तदुदाहरणमसङ्गतमिति शङ्कते-नन्विति । निदर्शनं दृष्टान्तः । क्वचित् किं निदानमिति पाठः । तदा नन्वित्यारभ्य
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy