________________
82
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्यं
तत्त्वमुक्ताकलापः तत्तिर्धर्मिमात्रे
सर्वार्थसिद्धि कथमाधाराधेयभावः प्रतिसंवन्धिभेदाभावात् ? 'नचात्र भिन्नाभिन्नत्वं दृष्टं *युष्मादिष्टं वा ? एवं *वृत्त्यनुपपत्त्या वा गुणगुणिनोरन्यतरपरिशेषस्स्यात् उभयपरित्यागो वेति परोक्तमयुक्तं । कथमित्यत्राह -तद्वृत्तिर्धर्मिमात्र इति। न वयं तच्छ्न्ये तद्विशिष्टे वा तस्य वृत्तिं ब्रूमः। अपि तु * वस्तुतस्तद्विशिष्टे
आनन्ददायिनी दृष्टमित्यत्राह---प्रतिसम्बन्धीति । यस्य यदपेक्षया आधारत्वं तस्य तदपेक्षया भेद इति भावः । ननु एकम्य गुणगुणिस्वरूपस्य कौमारिलैराधाराधेयभावोऽङ्गीकृत इत्यत्राह - न चात्रेति । तन्मतं प्रमाणावरुद्धमिति भावः । अपसिद्धान्तश्चेत्याह-~-युष्मदिष्टमिति । वृत्त्यनुपपत्तया वेति वाकारःपूर्वश्लोकोक्ततापेक्षया। अन्यतरपरिशेषस्स्यदिति वैभा
भावप्रकाशः *न चात्रेत्यादि। भिन्नाभिन्नत्वं--तादात्म्यं। एतेन दण्डी कुण्डलीत्यादावपि भवन्मते भेदाभेदानभ्युपगमेन तद्भानासंभवेनाभेदभाने च दण्डकुण्डलयोरभेदप्रसङ्ग इति सूचितं । ' * युष्मदिष्टमिति-एतच्च अद्रव्यसरे स्फुटीभविष्यति । 'वृत्त्यनुपपत्त्या वेति वाकारश्चार्थे । विशिष्टस्यातिरिक्तत्वानगीकारण अनतिरिक्तत्वे वृत्त्यनुपपत्त्या चेत्यर्थः । तदवच्छिन्ननिरूपिताधेयता न तत्र स्वीक्रियते येनोक्तदोषस्म्यात् किं तु तदधिकरणनिरूपिताधेयतैवेति नानुपपत्तिरित्याह-** वस्तुनम्ततिीिछे सति ॥