________________
सरः
द्व्यातिरिक्तधर्माक्षेपपरिहारः
तत्त्वमुक्ताकलापः स्वाधारत्वप्रसङ्गस्तत इह न गुणो नापि धर्मीत्ययुक्तम्।
सर्वार्थसिद्धिः . स्वाधारीकुर्यात्। किमत्रानिष्टम् ? '*स्वस्य स्वस्मादन्यत्वम् । अभेदे
आनन्ददायिनी आत्माश्रय इत्यसङ्गतं उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावादित्याशङ्कय आधाराधेयभावे भेदस्स्यात् तस्य भेदाधीनत्वादिति परिहरति-किमत्रेत्यादिना । ननु प्रमेयत्वे प्रमेयत्वमित्यादावभेदेऽपि दर्शनात्तथाऽत्राप्यस्त्वित्यत्राह--अभेद इति ॥
कथं स्ववृत्तिरिष्टा चेद्यथाऽन्यत्रेति गम्यताम् ।
प्रमाणं कारणं वृत्तौ न भिन्नाभिन्नते यतः ।। इति न्यायेन प्रमाणसद्भावात्तथाऽङ्गीकारः ; इह तु न तथा ; प्रमाणाभावादिति भावः । नन्वेकस्यैव घटस्य भूतलाधेयत्वं रूपाधारत्वं च
भावप्रकाशः इति भावः 1 * स्वस्य स्वस्मादन्यत्वमिति तदवच्छिन्ननिरूपिताधेयतायास्तत्राङ्गीकारे स्वस्य स्वधर्मितावच्छेदकत्वप्रसङ्गेन विधेयत्वोद्देश्यत्वाद्यवच्छेदकभेदाद्यभावेन शुक्लादिशब्दाच्छाब्दानुपपत्तिरिति भावः । न चात्र तदुपलक्षिते तस्य वृत्तिरिति संभवति ; अविद्यमानं सत् व्यावर्तकमुपलक्षणमिति परिभाषा । एवं सति धर्मस्याविद्यमानत्वे धर्मिणोऽपि सत्त्वासंभवेन कस्यायं व्यावर्तको भवेत् ? किञ्च धर्मस्योपलंक्षणत्वे उक्तरीत्या प्रतत्यिप्रकारत्वेन भवादिष्टासिद्धिरपीति ।