________________
80
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः मात्र; तावति विशिष्टधीव्यवहारयोरभावात् । '* अतस्सम्बन्ध्युभयं विशिष्टशब्दार्थ इति स्यात् । *तथा च स्वविशिष्टे वर्तमानो गुणः स्वविशेष्यमिव स्वात्मानमपि ।
भावप्रकाशः दिव्यवहारप्रसङ्गं वारयति '* सम्बन्ध्युभयमिति । एतेन प्रत्येकज्ञानात् समूहालम्बनाच्च विशिष्टज्ञानस्य वैलक्षण्यादिकमुपपादितं भवति। तथाहि . दण्डी पुरुष इति प्रत्यये संयोगेन दण्डसम्बद्धः पुरुषः पुरुषे दण्ड इति प्रत्यये च पुरुषसम्बद्धो दण्डो विषयः। प्रतीतर्विशिष्टविषयकत्वं च दण्डनिष्ठप्रकारतानिरूपितपुरुषानष्ठविशेष्यतानिरूपकतादिकं । अतो विशिष्टशुद्धयोरभेदेऽपि समूहालम्बनादेकः पुरुष इत्यादितश्च विशिष्टज्ञानम्य वैलक्षण्यं । तन्निबन्धन एव व्यवहारभेदः । नहि विषयवैलक्षण्यादेव प्रतीतिवैलक्षण्यमिति राजाज्ञा ; विशेष्यप्रकारभावादिविषयता वैलक्षण्यादपि तदुपपत्तेः । ज्ञानातिरिक्तश्चार्थो बुद्धिसरे स्थापायप्यते । विशेषणावच्छिन्नप्रतियोगिताकत्वेन विशेषणविशेष्योभयपर्याप्तप्रतियोगिताकत्वेन वा विशिष्टाभावस्य शुद्धाभावाद्भेद इत्यक्षपादानुयायिग्रन्थेषु व्यक्तं । भावान्तराभाववादे च न दोषलेशोऽपीत्यादिकं विषयित्वप्रतियोगित्वादिकं च यथाऽवसरं विवेचयिष्यते । * तथाच स्वविशिष्ट इत्यादि-अत एव वेदप्रामाण्यवादिभिरपि सोऽयं देवदत्त इत्यादौ तत्तदन्तयोरुपलक्षणत्वमेव न तु विशेषणत्वं । दण्डी कुण्डलीत्यादावपि दण्डकुण्डलोपाहतयोस्तादात्म्यमेव विषयः इत्यभ्युपगतं । तदुक्तं संक्षेपशारीरके
अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोद्वयोः । घटते न यदेकता तदा न तरां तद्विपरीतरूपयोः ।।