________________
76
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः नाधिकरणप्रयोगे विशिष्टत्वेनावस्थितोऽपि '*अर्थतस्स्वधर्म अन्यनिष्ठाद्वयवच्छिनत्ति स एव पटस्य शौक्लयमित्यादिप्रयोगे गुणीभवन् कण्ठोक्तेन स्वसम्बन्धेन विशिनष्टि । गोत्वं शोक्लथं इत्यादिपदेष्वपि “तस्य भावस्त्वतलौ" इत्यादि विहिततद्धिताश्रयवाच्यत्वेन धीस्थ एवार्थो निष्कृष्यमाणः स्वविशेषणनिरूपकतया अनुशिष्यते । एवं विशेष्यस्यैव द्विधा विशेषणयोग इति व्यजनाय पुनश्शब्दः; निष्कर्षप्रयोगेषु विशेष वा द्योतयति ॥९॥
आनन्ददायिनी नन्वेवं सति गोत्वं शौक्लयमित्यादौ तद्धिताश्रयप्रकृतिगवादिशब्दैः धर्म्यव धर्मविशेषितः प्रतीयत इति गुणीभवन् कण्ठोक्तेन सम्बन्धेन प्रतीयत इत्यनुपपन्नमित्यत आह ---गोत्वं शौक्लयमित्यादीति । प्रकृत्या विशिष्टार्थोपस्थितावपि तद्धितार्थधर्मान्वयबोधसमये गौर्नित्येत्यादाविव धर्म विहाय स्वरूपमन्वेतीति न दोष इति भावः । ननु जातिगुणः क्रियेत्यत्र न धर्म्युपस्थापकं प्रमाणमस्ति । अनुपस्थितानां च न व्यावतकत्वं । न च जात्यादिकमेव तदुपस्थापकं ; अनुपस्थापितस्य तस्य तदुपस्थापकत्वायोगात् । उपस्थापनस्य व्यापकधर्म्युपस्थापनाधीनत्वादिति चेत्तत्राह--निष्कर्षप्रयोगेष्विति। तत्तच्छब्द एव सहानुभवसाम
र्थ्यात् स्मारयति, स्मृतानां व्यावर्तकत्वं चेति न विरोध इति भावः ॥ ९ ॥
भावप्रकाशः प्रतीयते' इत्युत्तरभाष्यैकरस्यादिति सिद्धं । '*अर्थत इति ---एतेन गौरिति प्रत्यये गोत्वे गोराधेयतासम्बन्धेन भानं नास्तीति सूचितम् ॥