________________
सरः]
द्रव्यातारक्तधर्माक्षेपपरिहारः
15
सर्वार्थसिद्धिः व्यावर्तकत्वादित्थम्भावत्वं सिध्यति । तथा च नियतनिष्कर्षकप्रयोगेष्वप्येतेषु धर्मी धर्म विशिनष्टि यथा पटस्य शौक्लयं खण्डस्य गोत्वमित्यादिषु । धर्मी विशेषः धर्मस्य खेतरनिष्ठाद्वयावृत्तिधीहेतुरित्यर्थः। न चात्र मिथस्संश्रयः। विशेषणविशेष्याधियोस्तद्वयवहारयोश्च मिथो जन्यत्वाभावात् । निष्कर्षानिष्कर्षव्यवहारयोश्च विवक्षाभेदायत्तत्वात् , उभयथा व्यवहारस्य सर्वत्र सर्वैरपि दुरपह्नवत्वात् । यश्चात्र समा
आनन्ददायिनी व्यावर्तकत्वादिति । राज्ञः पुरुष इत्यादौ व्यावर्तकत्वादित्यर्थः। ननु परस्परव्यावृत्तबुद्धिविषयत्वेऽन्योन्याश्रयः इत्याह--नचेति । परस्परविशिष्टबुद्धिावृत्तिधीहेतुः । नचात्रान्योन्याश्रयः, परस्परव्यावृत्तिबुद्धेः परस्परहेतुत्वाभावात् । तद्विशिष्टबुद्धिश्चेन्द्रियसंप्रयोगाद्विशिष्टशब्दादिप्रमाणाद्वा भवति । तत्र शब्देन कदाचित्किञ्चिद्विशेष्यतया भासते । तथानियमस्य विवक्षा नियामिका । उभयथाऽपि प्रतीतौ परस्परव्यावर्तकत्वाविशेषे कथं विशेषणविशेष्यभावभेद इत्यत्राह—यश्चेति ।
भावप्रकाश विशेषो व्यावर्तकः धर्मी च स्वगतधर्मस्य आश्रयान्तरगतधर्माच्यवच्छेदक इति विशेषशब्दवाच्यः' इति श्रुतप्रकाशिकायां धर्मिणा धर्मस्सविशेष इत्यस्य घटस्य शौक्लयमित्यादिव्यधिकरणस्थलमेवोदाहरणं विवक्षितमिति दर्शितं । तेन ज्ञानत्वव्यापकं किञ्चिदवच्छिन्नविशेष्यताकत्वमित्येव 'सविशेषवस्तुविषयत्वात्सर्वप्रमाणानाम्' इति भाष्यस्यार्थः। वस्तुशब्दस्य विशेष्यपरत्वात् , 'प्रथममेव वस्तु प्रतीयमानं सकलेलस्ल्यावृत्तमेव