________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः ननु गौः शुक्ल इत्यादि
आनन्ददायिनी केषां चिद्धर्माणां स्वेनैव विशेषः तथात्वेऽपि गौरित्यादिजातिशव्देषु धर्मिपर्यन्तेषु शुक्लादिशब्देषु व्यक्तर्जातिगुणश्च जातेय॑क्त्यादिश्च वैशिष्टयप्रतियोगित्वादिना भासतां । यत्र गुणमात्रविषयकश्शुक्लशब्दः यत्र वा भावप्रधाननिर्देशो द्वेय कयोरित्यादिषु बहुवचनप्रसङ्गेन द्वित्वैकत्वपरेषु त्वतलाद्यन्तेषु गोत्वगोतादिशब्देषु जातिरित्यादिशब्देषु च प्रधानतया गुणादीनां निर्देशः तत्र किञ्चिद्धर्मवत्त्वाभावे प्राधान्यायोगात्तदन्यत्वेऽनवस्थाप्रसङ्गात्तदभावे एकम्य विशेषणविशेषतया प्रतीत्ययोगादपसिद्धान्तः । प्रमेयत्वादिकं च पक्षसममिति तत्र धर्मा भावेऽपि गत्यन्तराङ्गीकारे सर्वत्र तथाऽस्त्विति शकते-नन्विति ----
भावप्रकाशः 'जात्यादेरेवेति--स्वपरनिर्वाहकत्वाद्व्यावृत्तिरूपधर्मान्तरनिरपेक्षस्य प्रतियोगिनिरपेक्षस्यैव चेति भावः' इति ; उपसंहारभाप्ये च 'अतो वस्तुसंस्थानरूपजात्यादिलक्षणभेदविशिष्टविषयमेव प्रत्यक्षं' इति । न च ' अतोद्वितीयादिपिण्डग्रहणेषु गोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत् संस्थानवश्च सर्वदैव गृह्यते' इति भाप्यविवरणावसरे ‘पिण्डधर्मसंस्थानं तद्धमोऽनुवृत्तिरिति धर्मिधर्मभावरूपसाम्यनिबन्धनं च दृष्टान्तद्वयोपादानं ' इति । तत्पूर्व अनेकव्यक्तयन्वयरूपा अनुवृत्तिः सा चान्वयिनः पदार्थस्य पूर्वव्यक्तिनिष्ठतापरामर्शेनैव द्वितीयादिषु गृह्यते' इति च व्यासार्यसूक्तौ निर्विकल्पकसविकल्पकयोरुभयोरपि गोत्वे गोराधेयतासम्बन्धेन प्रकारतया भानमिति प्रतीयते; स्पष्टं चेदं निर्विशेषप्रामाण्यव्युदासवादे इति वाच्यम् : अनेकव्यक्तधन्वयरूपा बनवृत्तिरित्यनेन अनेकव्यक्ति