________________
सर:
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
सर्वार्थसिद्धिः * विशेष्यपर्यन्तोक्तौ तथा स्यात् । क्वचिद्गुणमात्रविषयेषु शुक्ला दिशब्देषु भावप्रधानेषु धेकयोरित्यादिषु त्वतलाधन्तेषु जातिगुणः क्रियेत्यादिषु च वाच्यानां तत्तद्धर्माणामिदन्त्वेन निर्देशादित्थम्भावसापेक्षत्वे अनवस्था ; अनपेक्षत्वे तु
आनन्ददायिनी ननु धर्माणां धर्मान्तराङ्गीकारे अनवस्था ; स्वस्यैव म्वनिष्ठत्वे आत्माश्रयः ; धर्मिणश्च धर्मापेक्षया धर्मत्वेऽन्योन्याश्रयः ; परस्परव्यावर्तकत्वे कर्मकर्तृविरोध इति तन्निष्कर्षकप्रयोगे धर्मी विशेष इत्यनुपपन्न
भावप्रकाशः सम्बन्धस्यैव अनुवृत्तिपदार्थत्वकथनेन तस्य संसर्गतया भानस्यैव तेन स्वरसतः प्रतीतेः । पूर्वव्यक्तिनिष्ठता-पूर्वव्यक्तिसम्बन्ध एव । भाष्ये गोत्वादेरनुवृत्तिधर्मविशिष्टता----अनेकव्यक्तिसम्बन्ध एव । वस्तुतो धर्मधर्मिभावस्य गोत्वानुवृत्त्योस्सत्त्वेन तथा व्यपदेशो भाष्ये श्रुतप्रकाशिकायां च, न तु ताद्रूप्येण ज्ञाने भानतात्पर्येण इति ध्येयम् ।
* विशेष्यपर्यन्तोक्तावित्यादि-विशेषणत्वं विशेष्यस्य स्वेतरव्यावृत्तिधीहेतुत्वं । यम्य विशेषणत्वमानं तस्य तु स्वत एव स्वेतरव्यावृत्तता। विशेष्यस्यैवेतरल्यावर्तकधर्मापेक्षा इति चास्तु तथाप्यद्रव्ये संस्थानरूपजातेरसंभवेन तद्विशेष्यकप्रतीतिषु । तदितरव्यावर्तकधर्माभावेन 'प्रथममेव वस्तु प्रतीयमानं सकलेतरव्यावृत्तमेव प्रतीयते' इति भाप्यविरोध इति भावः । * शुक्लादिशब्देष्विति-शुक्लादिप्रत्यक्षे च आश्रयविनिर्मोकेण रूंपभानं न संभवतीति तत्त्यागः । इदं शब्द. गन्धादिप्रत्यक्षस्याप्युपलक्षणम् । ...