________________
सर:]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
69
सर्वार्थसिद्धिः स्वान्यनिर्वाहकत्व--स्वपरव्यवहारादिव्यवस्थापकत्वं । 'श्यत्र ह्यनवस्थाभयाद्धर्मान्तरं नेष्यते, तत्र निमित्तान्तरनिरपेक्षौ तद्धीव्यवहारौ । यथा गोशब्दस्य व्यक्तिवृत्तावित्थम्भावभूतं गोत्वं निमित्तं गोत्वे तु न निमित्तान्तरमपेक्षते आनन्त्यव्यभिचाररूपानुपपत्त्यभावात् । एवं शुक्लादिशब्देष्वपि ।
आनन्ददायिनी धर्माणां प्रतीतिरित्यनुभवानुसारात् क्वचिद्धर्मान्तरेण सधर्मकत्वं नापहोतुं शक्यमिति भावः । सदृष्टान्तमुपपादयति-यत्र हीति । नन्वेवं धर्मे धर्मान्तरनियमाभावे यस्य धर्मत्वादेर्न धर्मान्तरं तस्य व्युत्पत्त्याद्यभावे शब्दवाच्यत्वादिकं न स्यादिति चेन्न; तत्र धर्मान्तराभावेऽपि स्वस्यवै स्ववृत्तितया प्रमेयत्वादिवद्विशिष्टबुद्धयादिविषयत्वेन वाच्यत्वादिसंभवात् । नच सिद्धान्ते गोत्वस्य संस्थानरूपतया आनन्त्यव्यभिचाराद्यनुपपत्तिः ; तथाऽपि सौसादृश्यरूपस्यैकस्य संभवादिति भावः । एवं शुक्लादिशब्दष्वपीति-ननु शुक्लादीनामनेकत्वान्न गोत्वादिन्याय इति चेन्न ; शुक्लत्वस्यैकस्योपाधेर्वक्तुं शक्यत्वात् । ननु यदि
भावप्रकाशः '* यत्र हीत्यादि। उक्तं च भाष्ये-'प्रथममेव वस्तु प्रतीयमानं सकलेतरव्यावृत्तमेव प्रतीयते। व्यावृत्तिश्च गोत्वादिसंस्थानविशिष्टतया इत्थमिति प्रतीतेः' इति तदपि जात्यादिविशिष्टवस्तुनः प्रत्यक्षविषयत्वात् जात्यादेरेव प्रतियोग्यपेक्षया वस्तुनस्स्वस्य च भेदव्यवहारहेतुत्वाच्च दूरोत्सारितं। संवेदनवत् रूपादिवच्च परत्र व्यवहारविशेषहेतोः स्वस्मिन्नपि तद्व्यवहारहेतुत्वं युष्माभिरभ्युपेतं भेदस्यापि संभवत्येव' इति । अत्र श्रुतप्रकाशिका