________________
62
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः शात्' इत्यादि 1*अनिरूढप्रायं स्यात् । ननु अनुमानं प्रमाणमिच्छन् न धर्मधर्मिभावं बाधितुमर्हति तस्य हेतुसाध्यधर्माश्रयावश्यं भावात् ; आह च धर्मकीर्तिः * हेतुबिन्दौ----
आनन्ददायिनी नमपासद्धान्त इति शङ्कते नन्विति। हेतु—मादिः साध्यं वयादिः त एवधर्मः तदाश्रयः पर्वतादिः पक्षः । धर्मकीर्तिः-बौद्धविशेषः । हेतुविन्दौ
भावप्रकाशः 1* अनिरूढप्रायं स्यादिति-धर्मधर्मिणोर्भेदासाधने स्वभिन्नधर्मशून्यत्वादेब्रह्मण्यङ्गीकारेऽपि ब्रह्म निर्धर्मकं निर्गुणं इत्येव पर्यवसानं स्यात् । तच्चोदाहृतसूत्रप्रणेतुर्व्यासस्यानभिमतं । 'यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इति ब्रह्मतद्विग्रहगुणानां मुक्तयुपायज्ञानविषयत्वबोधकाथर्वणश्रुत्यादिस्वारस्यविरुद्धं च । अतस्तत्साधनं दोषपरिहरणं चावश्यक मिति भावः । एतेन ' अथातो ब्रह्मजिज्ञासा' इत्यत्र धर्मविशिष्टस्यैव ब्रह्मणो जिज्ञास्यत्वं द्रव्याद्रव्यविभागस्य प्रयोजनं व्याससंमतिश्च सूच्यन्ते ।
* हेतुबिन्दाविति---अत्र न्यायबिन्दौ धर्मकीर्तिवाक्यान्यनुसन्धेयानि----(सू ३०) 'त्रैरूप्यं पुनः लिङ्गस्यानुमेये सत्त्वमेव । सपक्ष एव सत्त्वं । असपक्षे चासत्त्वमेव निश्चितं । अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी। साध्यधर्मसामान्येन समानोऽर्थस्सपक्षः । नसपक्षोऽसपक्षः । ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति । त्रिरूपाणिच त्रीण्येव च लिङ्गानि अनुपलब्धिः स्वभावकार्ये च। तत्रानुपलब्धियथा-न प्रदेशविशेषे क्वचिद्धटः उपलब्धिलक्षणप्राप्तस्यानुपलब्धोति ।