________________
सरः]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः.
6.3
सर्वार्थसिद्धिः पक्षधर्मस्तदंशेन व्याप्तो हेतुस्विधैव सः । अविनाभावनियमावेत्वाभासाः ततः परे ॥
आनन्ददायिनी हेतुबिन्द्वाख्यग्रन्थे । पक्षधर्म इत्यादि-पक्षधर्मः-साध्याश्रयस्य पक्षस्य पर्वतादेः धर्मः । तन्निष्ठो धूमादिरिति यावत् । तदंशेन--पक्षांशेन तस्य पक्षस्यांशेन-विशेषणेन साध्येन व्याप्तः । त्रिविधेन—कार्यस्वभावानुपलब्धिभेदेन । अविनाभावस्य नियमात्
भावप्रकाशः उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु यत्प्रत्यक्ष एव भवति स स्वभावः । स्वभावः स्वसत्तामात्रभाविनि साध्यधर्महेतुः । यथा वृक्षोऽयं शिंशपात्वादिति । कार्य यथाऽगिरत्र धूमादिति । अत्र द्वौ वस्तुसाधनौ। एकः प्रतिषेधहेतुः इति । अत्र हेतुबिन्दौ तदंशेन व्याप्त इत्यनेन 'सपक्ष एव सत्वं असपक्षे चासत्त्वमेव निश्चितं' इति न्यायबिन्दूक्तं रूपद्वयं संगृहीतं । बाधः परं प्रत्येकं न दोषः व्यभिचारासिद्धयोरन्यतरण गतार्थत्वात् । बाधस्थले पक्षान्तर्भावेन व्याप्तेरसंभवाच । एकत्र बाधाभावनिश्चयेऽपि पक्षतावच्छेदकाक्रान्तानकव्यक्तिषु बाधाभावनिश्चयस्याशक्यत्वाच्च । अतोऽबाधितत्वासत्प्रतिपक्षितत्वे परित्यक्ते ।।
1* ततः पर इति-न्यायबिन्दौ—एवं त्रयाणां रूपाणामेकै. कस्य द्वयोर्द्वयोवा रूपयोरसिद्धौ सन्देहे च यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासा इत्युपसंहारे संक्षेपः । ...