________________
सरः
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
61
सर्वार्थसिद्धिः एवमेकाश्रयानेकदृष्टावन्यतरनिह्नवार्थिनौ पुनरपि धर्मधर्मिभावभङ्गमुखेन प्रवृत्तौ प्रतिहन्यते । अन्यथा 1* 'अन्तस्तद्धर्मोपदे
आनन्ददायिनी अविद्यमानाभेदेऽपि तदक्षागोचरत्वतः । स्पृशतोऽप्यस्ति सा बुद्धिः द्रव्यं तत् स्पर्शनं यदि॥ .
नायं घट इति ज्ञानं सर्व (वर्ण) प्रत्यवभासनात् । इत्यादीनि बौद्धपठितदूषणान्युद्धतानि भवन्ति । इदानीं तु प्रमेयदूषणोद्धारः क्रियते इति सङ्गतिं दर्शयन् द्रव्यनिराकरणवादिनः पूर्व प्रधानतया प्रस्तुतत्वात् तद्दव्यबाधकयुक्तीनां पृथगुपन्यासः तत्समाधानं च राद्धान्तिना वक्तव्यं ; न चात्र तत्क्रियते; धर्ममात्र पर्यवसानाद्वक्ष्यमाणयुक्तीनां ; धर्ममात्रदूषणं च तच्छून्यश्लोके स युक्तिकमुपपादयिष्यते । अतः कथमुत्तरश्लोकारम्भ इति शङ्काद्वयं पौनरुक्तयं च परिहरन्नवतारयति—एवमेकाश्रयेति धर्मधर्मिभावोऽत्र निराक्रियते न धर्ममात्रं । उत्तरत्र वृत्तिविकल्पेन अत्र तु धर्मधर्मि भावभङ्गमुखेन इति न कृत्वाकरणं नापि पौनरुक्तयामिति भावः । धर्मधर्मिभावस्योपयोगमाह---अन्यथेति-धर्मधर्मिभावाभावे 'अन्तस्तद्धर्मोपदेशात्, इत्यादेरयोगादिति भावः । बौद्धानां धर्मधर्मिभावखण्ड
भावप्रकाशः 1* अन्तस्तद्धर्मोपदेशादित्यादि । आदिपदेन 'विवक्षितगुणोपपत्तेश्च' 'अदृश्यत्वादिगुणको धर्मोक्तेः' इत्यादिपरिग्रहः । अत्रान्तस्तधर्मोपदेशादिति सूत्रोपादानं ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुष इति श्रुत्युक्तदिशा भगवतो दिव्यमङ्गलविग्रहवत्त्वेऽपि अकर्मवश्यत्वप्रख्यापनपूर्वकं दिव्यमङ्गलविग्रहगुणानामपि मुक्तयुपायज्ञानविषयत्वबोधनाय।