________________
सर:
द्रव्यसाधनम्
तत्वमुक्ताकलापः न्यत्। '*एकस्मिन् दूरतादेरविशदविशदप्रत्यभिज्ञादि तद्वत्
सर्वार्थसिद्धि बुद्धयन्तराणि च तद्बाधकानि 1* अभिन्नेन्द्रियजन्यान्याहएकस्मिन् इति-आसन्नदेशे दृष्ट्वा दूरं गतस्य अविशदा प्रत्यभिज्ञा । दूरे दृष्ट्वा समीपं गतस्य तु विशदा। एवं क्रमाद्रहलविरलालोकादिवशादप्युभयथा ग्राह्या । अल्पधर्मविशिष्टतया ग्रहणं अविशदग्रहणं । भूयोधर्मविशिष्टतया तु
आनन्ददायिनी बुद्ध्यन्तराणीति-यद्यपि दृष्टमेव स्पृशामीति पूर्वोक्तापि प्रत्यभिज्ञा एकेन्द्रियजन्यैव चक्षुात्रजन्यत्वात् ; तथाऽपि सा इन्द्रियद्वयसापेक्षेति भावः। अभिन्नेन्द्रियजन्यानि-भिन्नेन्द्रियानपेक्षाणि ॥ ननु विशदाविशदज्ञानं कथं धर्मिसाधकमित्यत्राह-अल्पधर्मविशिष्टतयेति तथाच एकस्यैव वस्तुनो भूयोऽल्पधर्मविशिष्टतया ग्रहणमेव प्रतीतेर्विशदाविशदत्वमिति
भावप्रकाशः 1 * अभिन्नेन्द्रियजन्यानीति—पूर्वज्ञानजनकेन्द्रियाभिन्नेन्द्रियजन्यानीत्यर्थः । एतावता पूर्वज्ञानजनकेन्द्रियजन्यं ज्ञानं धर्मभिन्नध-. मिसाधने प्रमाणमिति सिद्धं । अथ 'यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणं तदेव परमार्थसत् । अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः' इति धर्मकीर्तिना न्यायबिन्दा स्वलक्षणविषये यदुक्तं तदेव धर्मिभिन्नधर्मपारमार्थ्यानङ्गीकारे न घटते इत्याह-मूले ** एकस्मिन् दूरतादरित्यादि । . . . . . . . . . ..